SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५६ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [दलिद्दाइ ] 'दरिद्राक् दुर्गतौ' (१०९२) दरिद्रा । वर्त० तिव् । अनेन रस्य लः । 'द्रे रो नवा' (२।८०) द्रमध्याद् रकारलोपः । 'अनादौ०' (२।८९) दस्य द्वित्वम् । 'त्यादीनामाद्यत्रयस्या०' (३।१३९) तिव्० → इ० दलिद्दाइ । [दलिद्दो] 'दरिद्राक् दुर्गतौ' (१०९२) दरिद्रा । दरिद्रातीति । अच्प्र० । 'अशित्यस्सन्-णकज्-णका-ऽनटि' (४।३।७७) आलोपः । अनेन रस्य लः । 'द्रे रो नवा' (२।८०) द्रमध्याद् रकारलोपः । 'अनादौ०' (२।८९) दस्य द्वित्वम् । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० दलिदो । [दालिदं] दरिद्रस्य भावः । 'पतिराजान्त०' (७१२६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन रस्य लः । 'अधो म-न-याम्' (२।७८) य्लुक् । 'द्रे रो नवा' (२।८०) द्रमध्याद् रकारलोपः । 'अनादौ०' (२।८९) दस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१।२३) अनुस्वारः दालिदं । [हलिद्दो] हारिद्र । 'वाऽव्ययोत्खातादावदातः' (१९६७) हा० → ह० । अनेन रस्य लः । 'द्रे रो नवा' (२६८०) द्रमध्याद् रकारलोपः । 'अनादौ०' (२१८९) दस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० हलिद्दो। [जहुट्ठिलो] युधिष्ठिर । 'आर्यो जः' (१।२४५) यस्य जः । 'उतो मुकुलादिष्वत्' (१।१०७) जु० → ज० । 'युधिष्ठिरे वा' (१।९६) धि० → धु० । 'ख-घ-थ-ध-भाम्' (१।१८७) धस्य हः । 'ष्टस्या०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । अनेन रस्य लः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० जहुट्ठिलो । [सिढिलो] शिथिर । 'श-षोः सः' (१।२६०) शि० → सि० । 'मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः' (१।२१५) थि० → ढि० । अनेन रस्य लः । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० सिढिलो । [महलो] मुखर । 'ख-घ-थ-ध-भाम' (१११८७) खस्य हः । अनेन रस्य लः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् मुहलो । - [चलणो] चरण । अनेन रस्य लः । प्रथमा सि । 'अतः सेोः' (३।२) सि० → डो० → ओ० । डित्यन्त्य०' (२२१२११४) अलुक् चलणो । [वलुणो] वरुण । अनेन रस्य लः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० वलुणो । [कलुणो] करुण । अनेन रस्य लः । प्रथमा सि । 'अत: सेोः' (३।२) सि० → डो० → ओ० कलुणो । [इङ्गालो] अङ्गार । 'पक्वा-ऽङ्गार-ललाटे वा' (१।४७) अ० → इ० । अनेन रस्य लः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० इङ्गालो । [सक्कालो] सत्कार । 'क-ग-ट-ड०' (२७७) लुक् । 'अनादौ०' (२१८९) कस्य द्वित्वम् । अनेन रस्य लः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सक्कालो । [सोमालो] सुकुमार । 'नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार-कुतूहलोदूखलोलुखले' (१।१७१) कुशब्देन सह ओत्वं- सुकु० → सो० । अनेन रस्य लः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सोमालो।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy