________________
अष्टमाध्यायस्य प्रथमः पादः ॥
.
१३९
[वितस्तिवसतिभरतकातरमातुलिङ्गे] वितस्तिश्च वसतिश्च भरतश्च कातरश्च मातुलिङ्गं च = वितस्तिवसतिभरतकातरमातुलिङ्गम्, तस्मिन् = वितस्तिवसतिभरतकातरमातुलिङ्गे । सप्तमी ङि ।
[हः ] ह प्रथमा सि ।
[विहत्थी] वितस्ति । अनेन तस्य हः । 'स्तस्य थोऽसमस्त-स्तम्बे' (२०४५) स्तस्य थः । 'अनादौ०' (२।८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः-त्थि० → त्थी० । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् विहत्थी ।
[वसही ] वसति । प्रथमा सि । अनेन तस्य हः । 'अक्लीबे सौ' (३।१९) दीर्घः - हि० → ही० । 'अन्त्य०' (१।११) स्लुक् वसही।
बहुलाधिकारात् क्वचिन्न स्यात्
[वसई ] वसति । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अक्लीबे सौ' (३।१९) दीर्घः- इ० → ई० । 'अन्त्यव्य०' (१।११) स्लुक् वसई ।
[भरहो] भरत । प्रथमा सि । अनेन तस्य हः । 'अतः से?:' (३।२) सि० → डो० → ओ० भरहो ।
[काहलो] कातर । अनेन तस्य हः । ‘हरिद्रादौ लः' (१।२५४) रस्य लः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० काहलो ।
[माहुलिंगं] मातुलिंग । प्रथमा सि । अनेन तस्य हः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः माहुलिंगं । [माउलुङ्ग] 'मातुलुङ्ग शब्दस्य तु 'क-ग-च-ज०' (१।१७७) त्लुक् माउलुङ्गं ॥२१४॥
मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥८।१।२१५ ॥ एषु थस्य ढो भवति ॥ हापवादः ॥ मेढी । सिढिलो । सढिलो । पढमो॥
[मेथिशिथिरशिथिलप्रथमे] मेथिश्च शिथिरश्च शिथिलश्च प्रथमश्च = मेथिशिथिरशिथिलप्रथमम्, तस्मिन् = मेथिशिथिरशिथिलप्रथमे । सप्तमी ङि ।
[थस्य ढः] थ षष्ठी ङस् । ढ प्रथमा सि । [ मेढी ] मेथि । प्रथमा सि । अनेन थस्य ढः । 'अक्लीबे सौ' (३.१९) दीर्घः । 'अन्त्यव्य०' (१२११) स्लुक् मेढी।
[सिढिलो] शिथिर । अनेन थस्य ढः । 'हरिद्रादौ लः' (१।२५४) रस्य लः । 'श-षोः सः' (१।२६०) शि० → सि० । 'अत: से?ः' (३२) सि० → डो० → ओ० सिढिलो ।
[ सढिलो ] शिथिल । प्रथमा सि । 'श-षोः सः' (१।२६०) शि० → सि० । 'शिथिलेङ्गुदे वा' (१९८९) सि० → स० । अनेन थस्य ढः । 'अतः सेोः' (३२) सि० → डो० → ओ० सढिलो। १. B. C. मातुलिङ्ग शब्दस्य तु 'क-ग-च-ज०' (१।१७७) माउलुङ्गं । पा० म०-मातुलिङ्ग शब्दस्य माहुलिङ्ग । माउलुङ्ग देखो माहुलिङ्ग । २. सर्वमुद्रितेषु सिढिलो । G सढिलो ।