SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३८ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ अतसी - सातवाहने लः ॥८।१।२११ ॥ अनयोस्तस्य लो भवति ॥ अलसी । सालाहणो सालवाहणो । सालाहणी भासा ॥ [अतसीसातवाहने लः] अतसी च सातवाहनश्च = अतसीसातवाहनः, तस्मिन् = अतसीसातवाहने । ल प्रथमा सि। [अलसी] अतसी । प्रथमा सि । अनेन तस्य लः । 'अन्त्यव्य०' (११) स्लुक् अलसी । - [सालाहणो सालवाहणो] सातवाहन । अनेन तस्य लः । 'क-ग-च-ज०' (१।१७७) वा व्लुक् । 'स्वरस्योद्वत्ते' (१८) इति निषेधप्राप्तावपि बाहुलकात् सन्धिर्भवति तस्मात् 'समानानां०' (१।२।१) दीर्घः । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० सालाहणो । यत्र लुक् न तत्र सालवाहणो पूर्ववत्। [सालाहणी भासा] सातवाहनो देवताऽस्येति सालाहणी । 'देवता' (६।२।१०१) अणप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । 'लोकात्' (१।१।३) सातवाहन । 'प्रत्यये ङीर्नवा' (३।३१) इति ङीप्रत्ययः । 'लुक् (१।१०) अलोप: । 'क-ग-च-ज०' (१।१७७) व्लुक् । अनेन तस्य लः । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । 'नो णः' (१।२२८) नी० → णी० । 'अन्त्यव्य०' (१।११) स्लुक् सालाहणी । भाषा । प्रथमा सि । 'श-षोः सः' (१।२६०) षा० → सा० । 'अन्त्यव्य०' (१।११) स्लुक् भासा ॥२११।। पलिते वा ॥ ८१।२१२ ॥ पलिते तस्य लो वा भवति ॥ पलिलं पलिअं॥ [पलिते वा] पलित सप्तमी ङि । वा प्रथमा सि । [पलिलं पलिअं] पलित (२) । अनेन वा तस्य लः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१०२३) अनुस्वारः पलिलं । द्वितीये 'क-ग-च-ज०' (१।१७७) त्लुक् । शेष पूर्ववत् । पलिअं ॥२१२।। पीते वो ले वा ॥ ८।१।२१३ ॥ पीते तस्य वो वा भवति, स्वार्थलकारे परे ॥ पीवलं पीअलं || ल इति किम् ? पीअं ॥ [पीते वो ले वा] पीत सप्तमी ङि । व प्रथमा सि । ल सप्तमी ङि । वा प्रथमा सि । [पीवलं पीअलं] पीत । स्वार्थे 'विद्युत्-पत्र-पीतान्धालः' (२।१७३) इति लप्र० । अनेन वा तस्य वः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पीवलं । पक्षे- पीत। 'विद्युत्-पत्र-पीतान्धाल:' (२।१७३) लप्र० । प्रथमा सि । 'क-ग-च-ज०' (१११७७) त्लुक् । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पीअलं। [पीअं] पीत । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पीअं ॥२१३॥ वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ ८।१।२१४ ॥ एषु तस्य हो भवति ॥ विहत्थी । वसही । बहुलाधिकारात् क्वचिन्न भवति - वसई । भरहो । काहलो । माहुलिंगं । मातुलुङ्गशब्दस्य तु माउलुङ्गं ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy