________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१३१
वडवामुखम् → वलयामुहं । गरुलो । तलायं । कीलइ ॥ स्वरादित्येव-मोण्डं । कोण्डं । तोण्डं ॥ असंयुक्तस्येत्येव - खग्गो ॥ अनादेरित्येव-रमइ डिम्भो ।। प्रायोग्रहणात् क्वचिद् विकल्पः - बलिसं बडिसं । दालिमं दाडिमं । गुलो गुडो। णाली णाडी । णलं णडं । आमेलो आवेडो ॥ क्वचिन्न भवत्येव - निबिडं । गउडो । पीडिअं । नीडं । उडू । तडी ॥
[डो लः] ड् षष्ठी ङस् । ल प्रथमा सि ।
[वलयामुहं] वडवामुख । अनेन डस्य लः । 'क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' (१।१७७) व्लुक् । 'अवर्णो यश्रुतिः (१११८०) आ० → या० । 'ख-घ-थ०' (१११८७) खस्य हः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः वलयामुहं ।
[गरुलो] गरुड । प्रथमा सि । अनेन डस्य लः । 'अतः सेझैः' (३२) सि० → डो० → ओ० गरुलो ।
[तलायं] तडाग । अनेन डस्य लः । 'क-ग-च-ज०' (१।१७७) ग्लुक् । 'अवर्णो०' (११८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तलायं ।
[कीलइ ] 'क्रीड़ विहारे' (२४३) क्रीड् । क्रीडति । 'सर्वत्र०' (२।७९) लुक् । अनेन डस्य लः । 'त्यादीनामाद्य०' (३।१३९) ति० → इ० कीलइ ।।
[ मोण्डं ] मुण्ड । प्रथमा सि । 'ओत् संयोगे' (१।११६) ओत्वम् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः मोण्डं ।
[कोण्डं ] कुण्ड । प्रथमा सि । 'ओत् संयोगे' (१।११६) ओत्वम् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः कोण्डं ।
'[ तोण्ड ] तुण्ड । प्रथमा सि । 'ओत् संयोगे' (१।११६) ओत्वम् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तोण्डं ।
[खग्गो] खड्ग । प्रथमा सि । 'क-ग-ट-ड०' (२७७) लुक् । 'अनादौ०' (२१८९) गस्य द्वित्वं-ग० → ग्ग० । 'अत: से?:' (३।२) सि० → डो० → ओ० खग्गो।।
[रमइ डिम्भो] 'रर्मि क्रीडायाम्' (९८९) रम् । रमते । 'त्यादीनामा०' (३।१३९) ते० → इ० रमइ । डिम्भ । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२२१२११४) अलुक् डिम्भो ।
[बलिसं बडिसं] बडिश (२) । प्रायोग्रहणात् क्वचिद् वा डस्य लः । 'श-षोः सः' (१२२६०) श० → स० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः बलिसं बडिसं ।
[दालिमं दाडिमं] दाडिम (२) । वा डस्य लः । पक्षे न भवति । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्। 'मोऽनु०' (१९२३) अनुस्वारः दालिमं दाडिमं ।
[गुलो गुडो ] गुड (२) । वा डस्य लः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० गुलो गुडो।
[णाली णाडी] नाडी (२) । वा डस्य लः । 'वाऽऽदौ' (१।२२९) नस्य णः । प्रथमा सि । 'अन्त्य०' (११११) स्लुक् णाली णाडी। १. । कोदण्डम् । पा० म०-कोदण्ड पुल्लिङ्गः । २. A. तोण्डं उदाहरणम् ।