________________
१३०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[कमढो] कमठ । प्रथमा सि । अनेन ठस्य ढः । 'अतः से?:' (३।२) सि० → डो० → ओ० कमढो । [कुढारो] कुठार । प्रथमा सि । अनेन ठस्य ढः । 'अतः से?:' (३।२) सि० → डो० → ओ० कुढारो ।
[पढइ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । पठति । अनेन ठस्य ढः । 'त्यादीनामाद्य०' (३३१३९) ति० → इ० पढइ ।
[वेकुंठो] वैकुंठ । प्रथमा सि । 'ऐत एत' (१।१४८) वै० → वे० । 'अतः से?ः' (३।२) सि० डो० → ओ० वेकुंठो।
[चिव ] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या. वक्ष० (१) - सूत्र (२९) ) स्था । वर्त० तिव् । 'स्थष्ठा-थक्क-चिट्ठ-निरप्पाः' (४।१६) स्थास्थाने चिट्ठ आदेशः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (श१०३) चिट्ठति । 'त्यादीनामाद्य०' (३३१३९) ति० → इ० चिट्ठइ ।
[हिअए ठाइ ] हृदय । 'इत् कृपादौ' (१।१२८) ह० → हि० । 'क-ग-च-ज०' (१२१७७) द-ययोर्लुक् । सप्तमी ङि । 'डे-म्मि डे:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् हिअए । स्था । वर्तः तिव् । 'स्थष्ठा०' (४।१६) स्था० → ठा० । 'त्यादीनामाद्यत्रयस्या०' (३।१३९) तिव्० → इ० ठाइ ॥१९९।।
अङ्कोठे लः ॥ ८।१।२०० ॥ अङ्कोठे ठस्य द्विरुक्तो लो भवति ॥ अङ्कोल्लतल्लतुप्पं ॥
[अङ्कोठे ल] अङ्कोठ सप्तमी ङि । ल्ल प्रथमा सि ।
[अङ्कोलतेलतुष्पं] 'अङ्कोठतैलेन तुप्पं- म्रक्षितं अङ्कोठ(ल्ल)तेल्लतुप्पं । देश्योऽयम् अनेन ठस्य ल्ल । तै(ते)ल्ल इत्यत्र 'ऐत एत्' (१।१४८) तै० → ते० । 'तैलादो' (२।९८) द्वित्वं-ल० → ल्ल० । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः अङ्कोलतेलतुप्पं ॥२०॥
पिठरे हो वा, रश्च डः ॥८॥१२०१ ॥
पिठरे ठस्य हो वा भवति, तत्संनियोगे च रस्य डो भवति ॥ पिहडो पिढरो ॥
[पिठरे हो वा रश्च डः] पिठर सप्तमी ङि । ह प्रथमा सि । वा प्रथमा सि । र षष्ठी ङस् । च प्रथमा सि । ड प्रथमा सि ।
[पिहडो पिढरो] पिठर । अनेन वा ठस्य हः -रस्य च डः । प्रथमा सि । 'अतः सेझैः' (३२) सि० → डो० → ओ० पिहडो । द्वितीये पिठर । प्रथमा सि । 'ठो ढः' (१।१९९) ठस्य ढः । 'अतः सेोः' (३२) सि० → डो० → ओ० पिढरो ॥२०१॥
डो लः ॥ ८।१।२०२ ॥
स्वरात् परस्य असंयुक्तस्य अनादेर्डस्य प्रायो लो भवति ।
१. L. अङ्कोठ-तैल-कुतुपम् । कुतुपं-चर्मपात्रम् । कुतुपाऽर्थे तुप्प इति देश्यशब्दे प्रयुङ्क्ते । M. अङ्कोठ-तैल-घृतम् ।