________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१२९
[सयढो] शंकट । प्रथमा सि । 'श-षोः सः' (१२२६०) श० → स० । 'क-ग-च-ज०' (१११७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । अनेन टस्य ढः । 'अत: सेझैः' (३।२) सि० → डो० → ओ० । 'गुणाद्याः क्लीबे वा' (१।३४) इति पुंस्त्वम् सयढो ।
[ केढवो ] कैटभ । प्रथमा सि । 'ऐत् एत्' (१।१४८) कै० → के० । अनेन टस्य ढः । 'कैटभे भो वः' (१।२४०) भ० → व० । 'अत: से?:' (३।२) सि० → डो० → ओ० केढवो ॥१९६॥
___ स्फटिके लः ॥ ८।१।१९७ ॥ स्फटिके टस्य लो भवति ॥ फलिहो ॥ [स्फटिके लः] स्फटिक सप्तमी ङि । ल प्रथमा सि ।
[फलिहो] स्फटिक । 'क-ग-ट-ड-त-द-प०' (२७७) स्लुक् । अनेन टस्य लः । 'निकष-स्फटिक-चिकुरे हः' (१११८६) कस्य हः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० फलिहो ॥१९७॥
चपेटा-पाटौ वा ॥ ८।१।१९८ ॥ चपेटाशब्दे ण्यन्ते च पाटौ धातौ टस्य लो वा भवति ॥ चविला चविडा || फालेइ फाडेइ ॥ [चपेटापाटौ वा] चपेटा च पाटिश्च = चपेटापाटि, तस्मिन् = चपेटापाटौ । सप्तमी ङि । वा प्रथमा सि ।
[चविला चविडा] चपेटा । 'एत इद्वा वेदना-चपेटा-देवर-केसरे' (१।१४६) पे० → पि० । 'पो वः' (१।२३१) पि० → वि० । अनेन वा टस्य लः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् चविला । पक्षे-चपेटा । 'एत इद्वा०' (१।१४६) पे० → पि० । 'पो वः' (१२२३१) पि० → वि० । 'टो डः' (१।१९५) टस्य डः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् चविडा ।
[फालेइ फाडेइ] अट-(१९४) 'पट गतौ' (१९५) पट् । पटन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ० । 'ञ्णिति' (४।३।५०) उपान्त्यस्वरवृद्धि:-प० → पा० । 'लोकात्' (१।१।३) पाटि इति स्थिते वर्त० तिव् । 'णेरदेदावावे' (३।१४९) टि० → टे० । अनेन टस्य लः । 'पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः' (१२२३२) पस्य फ: - पा० → फा० । 'त्यादीनामाद्यत्रयस्या०' (३।१३९) तिव० → इ० फालेइ । पक्षे-फाडेइ । 'टो डः' (१।१९५) टे० → डे० । शेषं पूर्ववत् । फाडेइ ॥१९८॥
ठो ढः ॥ ८॥१।१९९ ॥ स्वरात् परस्य असंयुक्तस्य अनादेष्ठस्य ढो भवति ॥
मढो । सढो । कमढो । कुढारो । पढइ ॥ स्वरादित्येव-वेकुंठो ॥ असंयुक्तस्येत्येव - चिट्ठइ ॥ अनादेरित्येव - हिअए ठाइ ॥
[ठो ढः] ठ् षष्ठी ङस् । ढ प्रथमा सि । [मढो] मठ । प्रथमा सि । अनेन ठस्य ढः । 'अतः से?:' (३।२) सि० → डो० → ओ० मढो ।
[सढो ] शठ । प्रथमा सि । अनेन ठस्य ढः । 'श-षोः सः' (१२२६०) श० → स० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० सढो ।
१. पा० म० - शकट → सयड पुं-नपुं० । २. E. पटौ । H. J. K. L. M. पटि ।