________________
१३२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[णलं णडं] नड (२) । वा डस्य लः । 'वाऽऽदौ' (१२२९) नस्य णः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः णलं णडं।
[आमेलो आवेडो] आपीड (२) । 'नीपा-5ऽपीडे मो वा' (०२३४) वा पस्य मः । 'एत् पीयूषा-5ऽपीडबिभीतक - कीदृशेदृशे' (१।१०५) मी० → मे० । वा डस्य लः । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० आमेलो । पक्षे- 'पो वः' (१।२३२) पस्य व: - पी० → वी० । 'एत् पीयूषा-ऽऽपीड०' (१।१०५) एत्वं - वी० → वे० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० आवेडो ।
[निबिडं] निबिड । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः निबिडं ।
[गउडो] गौड । 'अउ: पौरादौ च' (१।१६२) गौ० → गउ० । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० गउडो।
[पीडिअं] पीडित । 'क-ग-च-ज०' (१२१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पीडिअं ।
[नीडं] नीड । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः नीडं । [उडू उडु । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः- डु० → डू० । 'अन्त्य०' (१।११) स्लुक् उडू।
[तडी] तडित् । प्रथमा सि । 'अन्त्यव्य०' (१।११) त्लुक् । 'अक्लीबे सौ' (३।१९) दीर्घः - डि० → डी० । 'अन्त्यव्यः' (१।११) स्लुक् तडी ॥२०२॥
वेणौ णो वा ॥ ८।१।२०३ ॥ वेणौ णस्य लो वा भवति ॥ वेलू वेणू ॥ [वेणौ णो वा] वेणु सप्तमी ङि । ण् षष्ठी ङस् । वा प्रथमा सि ।।
[वेलू वेणू] वेणु (२) । अनेन वा णस्य लः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घ -लु० → लू० - णु० → णू० । 'अन्त्यव्य०' (१।११) स्लुक् वेलू वेणू ॥२०३।।
तुच्छे तश्च-छौ वा ॥ ८।१।२०४ ॥ तुच्छशब्दे तस्य च-छ इत्यादेशौ वा भवतः ॥ चच्छं छच्छं तच्छं । [तुच्छे तश्च-छौ वा] तुच्छ सप्तमी ङि । त् षष्ठी ङस् । च-छ प्रथमा औ। वा प्रथमा सि ।
[चुच्छं छुच्छं तुच्छं] तुच्छ (२) । अनेन वा तस्य चत्वं-छत्वं च । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म०। 'मोऽनु०' (१९२३) अनुस्वारः चुच्छं छुच्छं । तृतीये प्रकृतिरेव-तुच्छं ॥२०४॥
तगर-बसर-तूवरे टः ॥ ८।१।२०५ ॥ एषु तस्य टो भवति ॥ टगरो । टसरो । 'टूवरो ॥
[तगरत्रसरतूवरे टः ] तगरश्च त्रसरश्च तूवरश्च = तगरत्रसरतूवरम्, तस्मिन् = तगरत्रसरतूवरे । सप्तमी ङि । ट प्रथमा सि ।
१. K. टूबरो।