________________
१२६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[अथिरो] अस्थिर । 'क-ग-ट-ड०' (२७७) स्लुक् । प्रथमा सि । 'अतः सेझैः' (३२) सि० → डो० → ओ० अथिरो।
[जिणधम्मो ] जिनधर्म । 'नो णः' (१।२२८) न० → ण० । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं-म० → म्म० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० जिणधम्मो ।
[पणट्ठभओ] प्रनष्टभय । 'सर्वत्र०' (२७९) लुक् । 'नो णः' (११२२८) न० → ण । 'ष्टस्याऽनु०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'क-ग-च-ज०' (१।१७७) यलुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० पणट्ठभओ ।
[नभं] नभस् । 'अन्त्यव्यः' (१।११) स्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः नभं ॥१८७॥
पृथकि धो वा ॥८॥११८८ ॥
पृथक्शब्दे थस्य धो वा भवति | पिधं पुधं । पिहं पुहं ॥ [पृथकि धो वा] पृथक् सप्तमी ङि । ध प्रथमा सि । वा प्रथमा सि । [पिधं पुधं पिहं पुहं] पृथक् (२) । 'इदृतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग-नप्तके (११३७) इत्वं-उत्वं च । अनेन थस्य
। सि । 'अन्त्यव्यः' (१।११) सलक । बहलाधिकारात 'वा स्वरे मश्च' (१।२४) कस्य म० पिधं पधं । पले'ख-घ-थ-ध-भाम्' (१।१८७) थ० → ह० । शेषं पूर्ववत् । पिहं पुहं ॥१८८॥
शृङ्खले खः कः ॥ ८।१।१८९ ॥ शृङ्खले खस्य को भवति ॥ संकलं ॥ [शृङ्खले खः कः] शृङ्खल सप्तमी ङि । ख् षष्ठी ङस् । क प्रथमा सि ।
[संकलं] शृङ्खल । 'ऋतोऽत्' (१।१२६) शृ० → श० । 'श-षोः सः' (१२२६०) श० → स० । अनेन खस्य कः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः संकलं ॥१८९।।
पुन्नाग-भागिन्योर्गों मः ॥८॥११९० ॥ अनयोगस्य मो भवति ॥ पुनामाई वसन्ते । भामिणी ॥
[पुन्नागभागिन्योर्गो मः] पुन्नागश्च भागिनी च = पुन्नागभागिन्यौ, तयोः = पुन्नागभागिन्योः । षष्ठी ओस् । ग् षष्ठी ङस् । म प्रथमा सि ।
'[पुनामाई वसन्ते] पुन्नागस्य पुष्पाणि = पुन्नागानि । प्रथमा जस् । 'जस्-शस इ-इं-णयः सप्राग्दीर्घाः' (३।२६) जस्स्थाने इं-पूर्वस्य च दीर्घः- ग० → गा० । अनेन गा० → मा० पुन्नामाई ।
वसन्त । सप्तमी ङि । 'डे-म्मि डे:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् वसन्ते ।
[भामिणी] भागिनी । प्रथमा सि । अनेन गि० → मि० । 'नो णः' (१२२८) नी० →णी० । 'अन्त्यव्य०' (१।११) स्लुक् भामिणी ॥१९०॥
१. GJ. L. M. पुनामाइ ।