________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१२७
छागे लः ॥ ८।१।१९१ ॥ छागे गस्य लो भवति ॥ छालो । छाली । [छागे लः] छाग सप्तमी ङि । ल प्रथमा सि । [छालो] छाग । प्रथमा सि । अनेन गस्य लः । 'अतः से?:' (३२) सि० → डो० → ओ० छालो ।
[छाली ] छाग । अनेन गस्य लः । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) ङी० → ई० । 'लुक्' (१।१०) अलोपः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् छाली ॥१९१॥
ऊत्वे दुर्भग-सुभगे वः ॥ ८।१।१९२ ॥ अनयोरूत्वे गस्य वो भवति || दूहवो । सूहवो ॥ ऊत्व इति किम् ? दुहओ । सुहओ ॥
[ऊत्वे दुर्भगसुभगे वः] ऊत्व सप्तमी ङि । दुर्भगश्च सुभगश्च = दुर्भगसुभगम्, तस्मिन् = दुर्भगसुभगे । सप्तमी ङि। व प्रथमा सि ।
[दूहवो] दुर्भग । 'अन्त्यव्य०' (११११) लुक् ('निर्दुरोर्वा' (१।१३) लुक्)। 'लुंकि दुरो वा' (१।११५) दु० → दू० । 'ख-घ-थ-ध-भाम्' (१।१८७) भ० → ह० । अनेन गस्य वः । प्रथमा सि । 'अतः सेोः ' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् दूहवो ।
[सूहवो] सुभग । 'ऊत् सुभग-मुसले वा' (१।११३) सु० → सू० । 'ख-घ-थ०' (१।१८७) भ० → ह० । अनेन गस्य वः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० सूहवो ।
[दुहओ] दुर्भग । 'अन्त्यव्य०' (११११) लुक् ('निर्दुरोर्वा' (१।१३) लुक्) । 'ख-घ-थ-ध-भाम्' (१।१८७) भ० → ह० । 'क-ग-च-ज-त-द-प-य-वां०' (१११७७) ग्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् दुहओ ।
[सुहओ] सुभग । 'ख-घ-थ०' (१।१८७) भ० → ह० । 'क-ग-च-ज-त-द-प-य-वां०' (१।१७७) ग्लु क् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२२१२११४) अलुक् सुहओ ॥१९२।।।
खचित-पिशाचयोश्चः स-ल्लो वा ॥ ८॥१।१९३ ॥ अनयोश्चस्य यथासंख्यं स-ल्ल इत्यादेशौ वा भवतः ॥ खसिओ खइओ । पिसल्लो पिसाओ ॥ [खचितपिशाचयोः] खचितश्च पिशाचश्च = खचितपिशाचौ, तयोः = खचितपिशाचयोः । षष्ठी ओस् । [चः सल्लौ वा] च षष्ठी ङस् । स-ल्ल प्रथमा औ । वा प्रथमा सि ।
[खसिओ खइओ] खचित । अनेन चस्य सः । 'क-ग-च-ज०' (१११७७) त्लुक् । प्रथमा सि । 'अतः सेोंः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् खसिओ । पक्षे-खचित । 'क-ग-च-ज०' (१।१७७) च-तयोर्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् खइओ।
[पिसल्लो पिसाओ] पिशाच । अनेन च० → ल्ल । 'हस्वः संयोगे' (१९८४) शा० → श० । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० पिसल्लो । पक्षे-पिशाच । प्रथमा सि । 'श-षोः सः' (१२६०) शा० → सा० । 'क-ग-च-ज०' (१।१७७) चलुक् । 'अतः सेोंः ' (३२) सि० → डो० → ओ० पिसाओ ॥१९३।।