________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१०७
[कणेरो कणिआरो] कर्णिकार । अनेन ऎ० । 'सर्वत्र०' (२७९) लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् कणेरो ।
कर्णिकार । 'सर्वत्र ल०' (२१७९) लुक् । 'क-ग-च-ज०' (१।१७७) क्लु क् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् कणिआरो ॥१६८॥
अयौ वैत् ॥८।१।१६९ ॥ अयिशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह 'ऐद् वा भवति । ऐ बीहेमि । अइ उम्मत्तिए ॥ वचनादैकारस्यापि प्राकृते प्रयोगः ॥ [अयौ वैत् ] अयि सप्तमी ङि । वा प्रथमा सि । ऐत् प्रथमा सि ।
[ऐ बीहेमि ] अयि । अनेन अयि० → ऐ० । 'जिभीक् भये' (११३२) भी । 'भियो भा-बीहौ' (४।५३) भी० → बीह० । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव० → मि० । 'व्यञ्जनाददन्ते' (४॥२३९) अत् । 'वर्तमाना-पञ्चमीशतृषु वा' (३१५८) इति हे० । ऐ बीहेमि ।
[अइ उम्मत्तिए !] अयि उन्मत्तिके ! । 'क-ग-च-ज०' (१।१७७) य्लुक् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । अइ । अज्ञाता उन्मत्ता । 'कुत्सिता०' (७।३।३३) कप्प्र० → क । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ० । 'न्मो मः' (२०६१) न्म० → म० । 'अनादौ०' (२।८९) द्वित्वम् । आम० सि । 'वाप ए' (३।४१) एत्वम् । 'क-ग०' (१।१७७) क्लुक् । 'अन्त्य०' (१।११) स्लुक उम्मत्तिए ! ॥१६९।।
ओत् पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ ८।१।१७० ॥ पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् भवति । पोरो । बोरं । बोरी । नोमालिआ । नोहलिआ । पोप्फलं पोप्फली ॥ [ओत् ] ओत् प्रथमा सि ।
[पूतरबदरनवमालिकानवफलिकापूगफले] पूतरश्च बदरं च नवमालिका च नवफलिका च पूगफलं च = पतरबदरनवमालिकानवफलिकापगफलम. तस्मिन = पतरबदरनवमालिकानवफलिकापगफले । सप्तमी ङि ।
[पोरो] पूतर । अनेन पूतस्य पो० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् पोरो ।
[बोरं] बदर । अनेन बदस्य बो० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः बोरं ।
[बोरी ] बदर । गौरादित्वात् ङी-बदरी । अनेन बदस्य बो० । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् बोरी ।
[नोमालिआ ] नवमालिका । अनेन नवस्य नो० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् नोमालिआ ।
१. B.C. वा एत् ।