________________
१०८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[नोहलिआ] नवफलिका । अनेन नवस्य नो० । 'फो भ-हौ' (१।२३६) फ० → ह० । 'क-ग-च-ज०' (१।१७७) क्लुक् नोहलिआ ।
[पोप्फलं पोप्फली] पूगशब्दोऽनेकार्थो वृक्षे-फले च वर्तते । पूगफल (२) । पूगस्य फलम् । अनेन पूगस्य पो० । "सेवादौ वा' (२।९९) फस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वफस्य प० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः पोप्फलं । द्वितीये गौरादित्वात् ङी। 'अन्त्यव्य०' (१।११) स्लुक् पोप्फली ॥१७०।। नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार-कुतूहलोदूखलोलूखले ॥ ८।१।१७१ ॥ मयूखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥
मोहो मऊहो । लोणं । इअ लवणुग्गम । चोग्गुणो चउग्गुणो । चोत्थो चउत्थो । चोत्थी चउत्थी । चोद्दह चउद्दह । चोदसी चउद्दसी । चोव्वारो चउवारो । सोमालो सुउमालो । कोहलं कोउहल्लं । तह मन्ने कोहलिए ! । ओहलो उऊहलो । ओक्खलं उलूहलं ॥ मोरो मऊरो इति तु मोर-मयूरशब्दाभ्यां सिद्धम् ॥
[नवा मयूखलवणचतुर्गुणचतुर्थचतुर्दशचतुर्वारसुकुमारकुतूहलोदूखलोलूखले ] नवा प्रथमा सि । मयूखश्च लवणं च चतुर्गुणश्च चतुर्थश्च चतुर्दश च चतुर्वारश्च सुकुमारश्च कुतूहलं च उदूखलश्च उलूखलं च = मयूखलवणचतुर्गुणचतुर्थचतुर्दशचतुर्वारसुकुमारकुतूहलोदूखलोलूखले । सप्तमी ङि ।
[मोहो मऊहो] मयूख । अनेन मयूस्थाने मो० । 'ख-घ-थ-ध-भाम्' (१।१८७) ख० → ह० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् मोहो । पक्षे-'क-ग-च-ज०' (१११७७) य्लुक् । शेषं पूर्ववत् । मऊहो ।
[लोणं इअ लवणुग्गम] लवण । अनेन लवस्य लो० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः लोणं । इति लवणोद्गम । 'इतौ तो वाक्यादौ' (१९१) ति० → त० । 'क-ग-च-ज०' (१११७७) त्लुक् इअ । 'हूस्वः संयोगे' (१८४) णो० → णु० । 'क-ग-ट-ड०' (२७७) लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् लवणुग्गम ।
[चोग्गुणो चउग्गुणो] चतुर्गुण । अनेन चतुस्थाने चो० । 'सर्वत्र०' (२२७९) लुक् । “अनादौ०' (२१८९) गस्य द्वित्वम् । प्रथमा सि । 'अत: सेर्डोः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् चोग्गुणो । द्वितीये 'क-ग-च-ज०' (१।१७७) त्लुक् । शेषं तद्वत् । चउग्गुणो ।
[चोत्थो चउत्थो] चतुर्थ । अनेन चतुस्थाने चो० । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२।८९) थस्य द्वित्वम् । "द्वितीय-तुर्ययो०' (२।८९) पूर्वथस्य तः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् चोत्थो । द्वितीये 'क-ग-च-ज०' (१।१७७) त्लुक् । शेषं पूर्ववत् । चउत्थो ।
[चोत्थी चउत्थी ] चतुर्थी । अनेन चतुस्थाने चो० । 'सर्वत्र०' (२।७९) लुक् । 'अनादौ०' (२।८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । प्रथमा सि । 'अन्त्यव्य०' (१२११) स्लुक् चोत्थी । द्वितीये 'क-ग-च-ज०' (१।१७७) त्लुक् । 'सर्वत्र०' (२७९) लुक् । शेषं पूर्ववत् । चउत्थी । १. D.GL. 'समासे वा' (२।९७) । J. 'अनादौ०' (२२८९) । २. जह लंघेसि परवई निययवइं भरसहं पि मोत्तूण । तह मन्ने कोहलिए ! अजं कल्लं व फुट्टिहिसि ॥ [गा० को० ७१६] यथा लङ्घयसि परवृत्ति(परपति) निजवृत्ति भरसहा(निजपति भरसह) अपि मुक्त्वा । तथा मन्ये कूष्माण्डि ! (कुतूहलिनि !) अद्य श्वो वा विकसिष्यसि (प्रकटीभविष्यसि) ॥ ३. B.G. 'तैलादौ०' (२।८९) ।