________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[सरिरूवो] सदृश्-रूप । सदृग् रूपं यस्य सः । 'अन्त्यव्य०' (१।११) ग्लुक् । 'क-ग-च-ज०' (१।१७७) द्लुक्। अनेन ऋ० → रि० । 'पो वः' (१।२३१) प० → व० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२१११४) अलुक् सरिरूवो ।
[सरिब( ब )न्दीणं] सदृग-बु(ब)न्दि । 'अन्त्यव्यः' (१।११) ग्लुक् । 'क-ग-च-ज०' (१।१७७) द्लुक् । अनेन ऋ० → रि० । षष्ठी आम् । 'टा-आमोर्णः' (३६) आम्० →ण० । 'जस्-शस्-ङसि०' (३२) दि० → दी० सरिबु(ब)न्दीणं ।
[सरिसो] सदृश । अनेन ऋ० → रि० । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सरिसो।
[सरिच्छो] सदृक्ष । 'क-ग-च-ज०' (१।१७७) द्लुक् । अनेन ऋ० → रि० । 'क्षः खः क्वचित्तु छ-झौ' (२३) क्षस्य छः । ('छोऽक्ष्यादौ' (२।१७) क्ष० → छ०)। 'अनादौ०' (२८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । प्रथमा सि । 'अतः सेोः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् सरिच्छो। __[एआरिसो] एतद्-दृश् । एष इव दृश्यते । 'त्यदाद्यन्यः' (५।१।१५२) टक्प्र० । 'अन्य०' (३।२।१५२) आ० । 'क-ग-च-ज०' (१११७७) त्लुक्-द्लुक् च । अनेन ऋ० → रि० । 'श-षोः सः' (११२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् एआरिसो।
[भवारिसो] भवादृश । 'क-ग-च-ज०' (१।१७७) द्लुक् । अनेन ऋ० → रि० । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्यः ' (२।१२११४) अलुक् भवारिसो।
[जारिसो] य इव दृश्यते = यादृश । 'आदेर्यो जः' (११२४५) या० → जा० । 'क-ग-च-ज०' (१२१७७) द्लुक् । अनेन ऋ० → रि० । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ०। 'डित्यन्त्य०' (२।१।११४) अलुक् जारिसो ।
[तारिसो] तादृश । 'क-ग-च-ज०' (१।१७७) द्लुक् । अनेन ऋ० → रि० । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्यः ' (२।१।११४) अलुक् तारिसो ।
[केरिसो] कीदृश । 'एत् पीयूषा-5ऽपीड-बिभीतक-कीदृशेदृशे' (१।१०५) की० → के० । शेषं पूर्ववत् । केरिसो। [एरिसो] ईदृश । 'एत् पीयूषा-ऽऽपीड०' (१।१०५) ई० → ए० । शेषं पूर्ववत् । एरिसो ।
[अन्नारिसो] अन्यादृश । 'अधो म-न-याम्' (२७८) यलुक् । 'अनादौ०' (२१८९) नस्य द्वित्वं-ना० → ना० । शेषं पूर्ववत् । अन्नारिसो।
[अम्हारिसो] अस्मादृश । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) स्मा० → म्हा० । शेषं पूर्ववत् । अम्हारिसो ।
[ तुम्हारिसो] युष्मादृश । 'पक्ष्म-श्म-ष्म०' (२७४) स्मा० → म्हा० । 'युष्मद्यर्थपरे तः' (१।२४६) यु० → तु० । शेषं तद्वत् । तुम्हारिसो ॥१४२॥
आदृते ढिः ॥ ८।१।१४३ ॥ आदृतशब्दे ऋतो ढिरादेशो भवति ॥ आढिओ ॥ [आदृते ढिः] आदृत सप्तमी ङि । ढि प्रथमा सि ।