________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
रिणं अणं । रिज्जू उज्जू । रिसहो उसहो । रिऊ उऊ । रिसी इसी ॥
[ऋणर्वृषभत्र्वृषौ वा] ऋणं च ऋजुश्च ऋषभश्च ऋतुश्च ऋषिश्च = ऋणज्र्वृषभत्र्वृषि, तस्मिन् = ऋणवृषभत्र्वृषौ । वा प्रथमा सि ।
[रिणं अणं] ऋण (२) । अनेन वा ऋ० → रि० । द्वितीये 'ऋतोऽत्' (१११२६) ऋ० → अ० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनुस्वारः' (१।२३) अनुस्वारः रिणं अणं ।
[रिज्जू उज्जू] ऋजु (२) । अनेन वा ऋ० → रि० । द्वितीये 'उदृत्वादौ' (१।१३१) ऋ० → उ० । 'तैलादौ' (२।९८) जस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः- ज्जु० → ज्जू० । 'अन्त्यव्य०' (१।११) स्लुक् रिज्जू उज्जू ।
[रिसहो उसहो] ऋषभ (२) । अनेन वा ऋ० → रि० । द्वितीये 'उदृत्वादौ' (१११३१) ऋ० →उ० । 'श-षोः सः' (१।२६०) ष० → स० । 'ख-घ-थ-ध-भाम्' (१२१८७) भ० → ह० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२०११४) अलुक् रिसहो उसहो।
[रिऊ उऊ ] ऋतु (२) । अनेन वा ऋ० → रि० । द्वितीये 'उदृत्वादी' (१।१३१) ऋ० → उ० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः- उ० → ऊ० । अन्त्यव्य०' (१।११) स्लुक् रिऊ उऊ ।
[रिसी इसी] ऋषि (२) । अनेन वा ऋ० → रि० । 'श-षोः सः' (१।२६०) षि० → सि० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः- सि० → सी० । 'अन्त्यव्य०' (१२११) स्लुक् रिसी । द्वितीये 'इत् कृपादौ' (१।१२८) ऋ० → इ० । शेषं तद्वत्-इसी ॥१४१॥
दृशः क्विप्-टक्-सकः ॥ ८॥११४२ ॥ क्विप्-टक्-सक् इत्येतदन्तस्य दृशेर्धातोर्ऋतो रिरादेशो भवति ॥ सदृक् → सरिवण्णो । सरिरूवो । सरिबन्दीणं । सदृशः → सरिसो । सदृक्षः → सरिच्छो । एतादृशः → एआरिसो॥ एवम् - भवारिसो । जारिसो । तारिसो । केरिसो । एरिसो । अन्नारिसो । अम्हारिसो । तुम्हारिसो ॥ टक्-सक्साहचर्यात् 'त्यदाद्यन्यादि०' (५।१।१५२) सूत्रविहितः क्विबिह गृह्यते ॥ [दृशः क्विप्टक्सकः] दृश् षष्ठी ङस् । क्विप्टक्सक् षष्ठी ङस् ।
[सरिवण्णो] सदृश्-वर्ण । सदृग्वर्णो यस्य सः । 'अन्त्यव्य०' (१।११) ग्लुक् । 'क-ग-च०' (१।१७७) द्लुक्। अनेन ऋ० → रि० । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२२८९) णस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१२११४) अलुक् सरिवण्णो ।
१. A. रिज्जू अज्जू उज्जू । ऋजु (३) । अनेन वा ऋ० → रि० । द्वितीये 'ऋतोऽत्' (१।१२६) ऋ० → अ० । तृतीये 'उदृत्वादौ' (१।१३१) ऋ० → उ० । द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः-ज्जु० → ज्जू० । 'अन्त्य०' (१।११) स्लुक रिज्जू अज्जू उज्जू । २. वज्जवडणाइरिक्कं पइणो सोऊण सिञ्जिणीघोसं । पुसिआइं करिमरिएँ सरिसबन्दीणं पि णअणाई ॥
[गा० स० - १५४] वज्रपतनातिरिक्तं पत्युः श्रुत्वा शिञ्जिनीघोषम् । प्रोञ्छितानि वन्द्या सदृशबन्दीनामपि नयनानि ॥