________________
९४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[आढिओ] आदृत । 'क-ग-च-ज०' (१।१७७) द्लुक् । अनेन ऋ० → ढि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अत: सेझैः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१२११४) अलुक् आढिओ ॥१४३।।
__ अरिदृप्ते ॥ ८।१।१४४ ॥ दप्तशब्दे ऋतोऽरिरादेशो भवति ॥ दरिओ । दरिअसीहेण ॥ [अरिदृप्ते ] अरि प्रथमा सि । दृप्त सप्तमी ङि ।
[दरिओ] दृप्त । अनेन ऋ० → अरि० - दरि० । 'क-ग-ट-ड०' (२७७) प्लु क् । 'क-ग-च-ज०' (१११७७) त्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् दरिओ ।
[दरिअसीहेण ] दृप्तसिंह । अनेन ऋ० → अरि० - दरि० । 'क-ग-ट-ड०' (२७७) प्लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । सिंह । तृतीया टा । 'ईजिह्वा-सिंह-त्रिंशद्विशतौ त्या' (१।९२) सिं० → सी० । 'मांसाऽऽदेर्वा' (१।२९) अनुस्वारलुक् । 'टा-आमोर्णः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) ह. → हे. दरिअसीहेण ॥१४४॥
तृत इलिः क्लृप्त-क्लन्ने ॥ ८।१।१४५ ॥ अनयोर्तृत इलिरादेशो भवति ॥ किलित्त-कुसुमोवयारेसु । धारा-किलिन्न-वत्तं ॥ [लत इलिः ] लुत् षष्ठी ङस् । इलि प्रथमा सि । [क्लृप्तक्लुन्ने ] क्लृप्तं च क्लुन्नं च = क्लृप्तक्लुन्नम्, तस्मिन् = क्लृप्तक्लन्ने ।
[किलित्त-कुसुमोवयारेसु] क्लृप्त-कुसुमोपचार । अनेन क्लृ० → किलि० । 'क-ग-ट-ड०' (२१७७) प्लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वं-त० → त्त० । 'पो वः' (१२२३१) प० → व० । 'क-ग-च-ज०' (१।१७७) च्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । सप्तमी सुप् । 'भिस्-भ्यस्-सुपि' (३।१५) इति एकारः किलित्तकुसुमोवयारेसु । _ [धारा-किलिन्न-वत्तं ] 'धारा-क्लन्न-पात्रम् । धाराभि: क्लुन्नं पात्रं यस्य तत् । अनेन क्ल० → किलि० । 'पो वः' (१।२३१) पा० → वा० । 'हूस्वः संयोगे' (१९८४) वा० → व० । 'सर्वत्र०' (२२७९) लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वं - त० → त्त० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः धाराकिलिन्न-वत्तं ॥१४५॥
एत इद्वा वेदना-चपेटा-देवर-केसरे ॥ ८।१।१४६ ॥ वेदनादिषु एत इत्त्वं वा भवति ॥ विअणा वेअणा । चविडा । विअड-चवेडा-विणोअ(आ) । दिअरो देवरो । महमहिअ-दसण-किसरं । केसरं ॥
१. भम धम्मिअ वीसद्धो/विसत्थो सो सुणओ अज्ज मारिओ तेण । 'गोलाणईकच्छकुडंगवासिणा दरिअसीहेण ॥ [शृ० प्र० - ७।१६७ । ध्व० - प्रथमोद्योतः । गा० स० - २७५] १. पाठां० - गा० स० - गोलाअडविअड० = गोदातटविकट० । भ्रम धार्मिक ! विस्रब्धः । विश्वस्तः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छकुञ्जवासिना दृप्तसिंहेन ॥ २. धारा-किलिण्ण-वत्तं आसुरहि-कसाय-केसरद्धंतं । परिणमइ बंधणे च्चिअ परिसिढिलं जूहिआ-कुसुमं ॥ [ग० व० -४१०] धाराक्लिन्नपत्रमासुरभिकषायकेसरार्धान्तम् । परिणमति बन्धन एव परिशिथिलं यूथिकाकुसुमम् ॥ ३. H. M. धारा-क्लन्न-पत्रम् ।