________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[पिउवई ] पितृ-पति । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन ऋ० → उ० । 'पो वः' (१।२३१) पस्य वः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - इ० → ई० । 'अन्त्यव्य०' (१।११) स्लुक् पिउवई ॥१३४॥
मातुरिद्वा ॥ ८।१।१३५ ॥ मातृशब्दस्य गौणस्य योऽन्त्य ऋत: तस्य इद् वा भवति ॥ माइहरं । माउहरं ॥ क्वचिदगौणस्यापि-माईण ॥ [मातुरिद्वा ] मातृ षष्ठी ङस् । इत् प्रथमा सि । वा प्रथमा सि ।
[माइहरं माउहरं ] मातृ-गृह (२) । अनेन वा ऋ० → इ० । पक्षे-'गौणाऽन्त्य०' (१।१३४) ऋ० → उ० । 'गृहस्य घरोऽपतौ' (२।१४४) गृहस्य घर० । 'ख-घ-थ-ध-भाम्' (१।१८७) घ० → ह० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः माइहरं माउहरं ।
[माईण] मातृ । षष्ठी आम् । 'क-ग-ट-ड०' (२७७) त्लुक् । ('क-ग-च-ज०' (१।१७७) त्लुक्) । अनेन ऋ० → इ० । 'टा-आमोर्णः' (३६) आम्० → ण । 'जस्-शस्-ङसि-त्तो-दो-द्वामि-दीर्घः' (३।१२) इ० → ई० माईण ॥१३५॥
उदूदोन्मृषि ॥ ८।१।१३६ ॥ मृषाशब्दे ऋत उत्-ऊत्-ओच्च भवन्ति ॥ मुसा । मूसा । मोसा । मुसावाओ । मूसावाओ । मोसावाओ ॥ [ उदूदोन्मृषि ] उच्च ऊच्च ओच्च = उदूदोत् । प्रथमा जस् । 'अव्ययस्य' (३।२।७) जस्लुप् । मृष् सप्तमी ङि ।
[मुसा मूसा मोसा] मृषा (३) । अनेन प्रथमे ऋ० → उ० । द्वितीये ऋ० →ऊ । तृतीये ऋ० → ओ० । 'शषोः सः' (१।२६०) षा० → सा० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् मुसा मूसा मोसा।
[मुसावाओ मूसावाओ मोसावाओ] मृषावाद । अनेन प्रथमे ऋ० → उ० । द्वितीये ऋ० → ऊ० । तृतीये ऋ० → ओ० । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'श-षोः सः' (१।२६०) षा० → सा० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् मुसावाओ मूसावाओ मोसावाओ ॥१३६।।
इदुतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग-नप्लके ॥ ८।१।१३७ ॥ एषु ऋत इकारोकारौ भवतः ॥ विट्ठो वुट्ठो । विट्ठी वुट्ठी । पिहं पुहं । मिइङ्गो मुइङ्गो । नत्तिओ नत्तुओ ॥ [इदुतौ ] इच्च उच्च = इदुतौ । प्रथमा औ ।
[वृष्टवृष्टिपृथक्मृदङ्गनप्लके] वृष्टश्च वृष्टिश्च पृथक् च मृदङ्गश्च नतृकश्च = वृष्टवृष्टिपृथक्मृदङ्गनप्तकम्, तस्मिन् = वृष्टवृष्टिपृथक्मृदङ्गनसके । सप्तमी ङि ।
[विठ्ठो वुट्ठो] वृष्ट (२) । अनेन प्रथमे वृ० → वि० । द्वितीये वृ० → वु० । 'ष्टस्याऽनुष्ट्रष्टा०' (२।३४) ष्टस्य ठः। 'अनादौ०' (२१८९) ठस्य द्वित्वम् । “द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् विट्ठो वुहो ।
[विट्ठी वुट्ठी ] वृष्टि (२) । अनेन प्रथमे वृ० → वि० । द्वितीये वृ० → वु० । 'ष्टस्याऽनु०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः-टि० →ट्ठी० । 'अन्त्यव्य०' (१।११) स्लुक् विठ्ठी वुट्टी ।