________________
अष्टमाध्यायस्य प्रथमः पादः॥
[निवुत्तं निअत्तं] निवृत्त । अनेन वा वृ० → वु० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१२३) अनुस्वारः निवुत्तं । द्वितीये । 'ऋतोऽत्' (१११२६) वृ० → व० । 'क-ग-च-ज०' (१।१७७) व्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः निअत्तं ।
[वुन्दारया वन्दारया] वृन्दारक (२) । अनेन वा वृ० → वु० । 'ऋतोऽत्' (१।१२६) वृ० → व० इति द्वितीये । 'क-ग-च-ज०' (१।१७७) क्लु क् । 'अवर्णो०' (१११८०) अ० → य० । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः- य० → या० वुन्दारया वन्दारया ॥१३२॥
वृषभे वा वा ॥ ८।१।१३३ ॥ वृषभे ऋतो वेन सह उद् वा भवति || उसहो वसहो ॥ . [वृषभे वा वा] वृषभ सप्तमी ङि । व् तृतीया टा । वा प्रथमा सि ।
[उसहो वसहो ] वृषभ । अनेन वा वकारेण सह ऋ० → उ० । 'श-षोः सः' (१।२६०) ष० → स० । 'ख-घ०' (११८७) भ० → ह० । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् उसहो । द्वितीये 'ऋतोऽत्' (१।१२६) वृ० → व० । शेषं पूर्ववत् । वसहो ॥१३३।।
गौणाऽन्त्यस्य ॥ ८।१।१३४ ॥ गौणपद(शब्द)स्य योऽन्त्य ऋत् तस्य उद् भवति । माउमण्डलं । माउहरं । पिउहरं । माउसिआ । पिउसिआ । पिउवणं । पिउवई ॥ [गौणाऽन्त्यस्य ] गौणस्य अन्त्यः = गौणाऽन्त्यस्तस्य = गौणाऽन्त्यस्य । षष्ठी ङस् ।
[माउमण्डलं] मातृ-मण्डल । मातृणां मण्डलं = मातृमण्डलम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन ऋ० → उ० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः माउमण्डलं ।
[माउहरं ] मातृ-गृह । 'क-ग-च-ज०' (१।१७७) त्लु क् । अनेन ऋ० → उ० । 'गृहस्य घरोऽपतौ' (२।१४४) इति गृह० → घर० आदेशः । 'ख-घ-थ-ध-भाम्' (१२१८७) घ० → ह० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्। 'मोऽनुस्वारः' (१२२३) अनुस्वारः माउहरं ।
[पिउहरं ] पितृ-गृह । 'क-ग-च-ज०' (१।१७७) त्लु क् । अनेन ऋ० → उ० । 'गृहस्य घरोऽपतौ' (२।१४४) इति गृह० → घर० आदेशः । 'ख-घ-थ०' (१।१८७) घ० → ह० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (०२३) अनुस्वारः पिउहरं ।
[माउसिआ] मातृ-स्वसृ । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन ऋ० → उ० । 'मातृ-पितुः स्वसुः सिआछौ' (२।१४२) इति स्वसृ० → सिआ० आदेशः । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् माउसिआ ।
[पिउसिआ] पितृ-स्वसृ । 'क-ग-च-ज०' (११७७) त्लुक् । अनेन ऋ० → उ० । 'मातृ-पितुः०' (२।१४२) इति स्वसृ० → सिआ० आदेशः । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् पिउसिआ ।
[पिउवणं] पितृ-वन । 'क-ग-च-ज०' (१११७७) लुक् । अनेन ऋ० →उ० । 'नो णः' (१।२२८) न० → ण० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः पिउवणं ।