________________
अथात्र स्वर्णसिद्धि प्रकारेण व्याख्याः
तिसृणां औषधीना रक्तदुग्धिका-सोमवल्ली-बहुफली(ला)नां संघातेन समवायेन थोसामिति, खेदनमुखोद्घाटनजारणादिविधि विधास्यामि । तत्र स्वेदन -गोमहिष्यजानरखरमुत्रैः कांजिकसहितैर्दोलायंत्रेण । जारण-बिडनिष्पादनेन । गोरौचना, स्फटिकी, नक्सार, गंधक, हरिताल, स्थद, सौभाग्यरूपऔषधकचूर्ण समांश अजापित्तके निक्षिप्य मासमेकं चुल्ला उपरि धार्य ।
___ इत्थ बिडं निष्पाद्य मुखमध्याद्यते । तच्चेत्थ कृष्णाभ्रमेकपत्र हत्या यबारनालमध्ये प्रहराष्ट निक्षिप्यते । फोगकंदल दुर्याजालैर्वा सहवत्रेण गाल्यते । तद्रवरूप स्नाविवर्जित । रसस्य हि त्रयों दोषा मलं-शिखी-विष! चैति । ततो 'मयमोह विवज्जिय” इति अनेन मलविषलक्षणदोषद्वायवर्जित उक्त्वा संप्रति दहन दोषनिरासार्थ विशेषणमाह ॥
जियकसायति-जितः स्वात्मनि लीनः कृतः, कषायत्रिफलाख्यो येन स तथा त । अनेनेदं उक्त भवति । यत् त्रिफलया तस्य शिखिदोषाख्यो अपनीत इति ॥ तथा च रस ग्रंथः मलशिखि-विष नैसार्गिका नामानो नैसर्गिका स्त्रयो दोषा। गृहकन्या हरतिमलं, त्रिफलग्नि चित्रकस्तु विष इति ।। थोसाभि-स्तंभयिष्यामि । केन कृत्वा, त्रिसंघातेन-सिताभ्रक, तालक, तार', एतेषां त्रयाणां-संघातेन योगेनेत्येके अन्ये तु व्याचक्षते । टुग्धिकादीनां स्व० रस, रस मध्ये दद्यात् । औषधीशुष्कत्वे तु तासां क्वार्थ कृत्वा तद्रस निक्षिपेत् । अत्र च रक्तदुग्धिका-सोमवल्ली बहुफलीनां अन्यतमयापि कार्य सिध्यति । तथापि तिस्रो ग्राह्या इत्याम्मायः । पुनः कथं जिन'-पारद, तीर्णसंग'-मृतसप्तगुणसं(क)गोत्तीर्ण, अस्य संप्रदायो गुमबुखात् भोसम्म एतावता श्वेतनालिंदर्शिता । अधुना पीतविधिमाह । महगिर-'मे इति-हेममाक्षिक। 'हा' इति हाटकं । 'वी' इति-कृष्णाभ्रक । 'र' इति रसः । तं स्तोष्यामि । शेषा औषधयः समाना एव इति प्रथम गाथाघः ।
सुकुमाल इति-नाइणि । धीर-इति नाइ । सोमा इति सोमपल्ली-त्रयं, सोमा षा कुची, 'रत्त' इति रक्तदुग्धिका, कमिण इति कृष्णा बहुफली-कांचनिका । पंडरा इति-देवदाली । 'सि' इति अगिक्वविष । 'रि' इति लघुरिगनी 'रिकेया' इति केतकी । तम्निर्यासः । 'सीया' इति-लांगलिका । कुसगह इति-अहिखरीबीजाति, अपामार्गबीजानि वा । 'भीरु' इति-लज्जालूका 'जलमंडनिका'-मंडुकबाधी, 'स्थल मंडनिका-अंबावनी-अबवंगेरी । 'नभो मंडनिका-सुनाली आकाशवल्ली वेत्येके । । एतास्तिस्र औषधयः । ओषधीनां बहुत्वेपि तिन्निति-अभिधान मंडनशब्दयोजनासाम्यात् इति द्वितीयगाथार्थः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org