________________
भाष्यम् उं० २०१८-२०
अनवस्थाप्य वराञ्चितयोः पुनरुपस्थापनविधिः ६१
पूर्वसूत्रेऽर्थजातभिक्षोर्वैयावृत्त्यकरणं प्रोक्तम्, साम्प्रतमनवस्थाप्यस्योपस्थापनविधिमाह, तत्राऽनवस्थाप्यसूत्रस्यार्थजातसूत्रेण सह कः सम्बन्धः ? इति सम्बन्धप्रतिपादिकां गाथामाह - 'अजाओ' इत्यादि ।
गाथा - अजाओ पुव्वमुत्तो, अट्ठास तेणियं भवे । तणे अणagप्पो संबंधोऽत्थ इमो सिया ॥ १ ॥
छाया - अर्थजातः पूर्वमुक्तः अर्थस्य स्तैन्यं भवेत् । तत्स्तैन्येऽनवस्थाप्यः सम्बन्धोऽत्रायं स्यात् ॥१॥
व्याख्या——‘अट्ठजाओ' पूर्वमर्थजातो भिक्षुरुक्तः अर्थजात भिक्षुविषये विधिः प्रोक्तः, अर्थस्य धनस्य कदाचित् स्तैन्यं चौर्यं भवेत्, ततः तत्स्तैन्ये धनस्य चौर्य भिक्षुरनवस्थाप्यो नवमप्रायश्चित्तभाक् स्यात्, अतोऽस्मिन् वक्ष्यमाणे सूत्रे अनवस्थाप्यभिक्षुविषये विधिः प्रतिपादयिष्यते । अयमेवात्र संबन्धः स्यादिति गाथार्थः || १||
अनेन सम्बन्धेनायातमिदमनवस्थाप्यसूत्रमाह-'अणवटु' इत्यादि ।
सूत्रम् -- अणवट्टप्पं भिक्खु अगिरिभूयं नो कप्पइ तस्स गणात्रच्छेयगस्स उवट्ठावेत्तए । अणवपं भिक्खु गिरिभूयं कप्पर तस्स गणात्रच्छेयगस्स उबद्वावित्तए । ० १८ ॥
छाया - अनवस्थाप्य भिक्षुम् अगृहीभूतं नो कल्पते तस्य गणावच्छेदकस्योपस्थापयितुम् । अनवस्थाप्यं भिधुं गृहीभूतं कल्पते तस्य गणावच्छेदकस्योपस्थापयितुम् ॥ सु०१८ ।।
सः,
भाष्यम् – 'अणवट्टप्पं' अनवस्थाप्यम् - गृहिणः साधर्मिकस्य वा चौर्येण अनवस्थाप्यनामकनत्रमप्रायश्वित्तस्थानापन्नं भिक्खु" भिक्षु 'अगिरिभूयं' अगृहीभूतम् अप्राप्तगृहस्थवेषं साधुपर्याये एव स्थितम् साधुवेषत्यागयोग्ये नवमप्रायश्चित्ते प्राप्तेऽपि यः साधुवेषं न त्यक्तवान् तं तादृशं भिक्षु' 'नो कप्पड़' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य ‘उवट्ठावेत्तए' उपस्थापयितुम् - महात्रतेषु समारोपयितुम् पुनर्दीक्षां दातुमित्यर्थः । अयं भावःयदि कदाचिद् अनवस्थाप्यो भिक्षुश्चौर्यदोषशुद्धयर्थं पुनश्चारित्रप्रतिपत्तये गणावच्छेदकस्य समीप - मागच्छेत् तदा तस्य गणावच्छेदकस्य न कल्पते अगृहीतभूम् - अस्वीकृतगृहस्थवेषं तम् अनवस्थाप्यं भिक्षुमुपस्थापयितुं पुनः दीक्षां दातुं न कल्पते । स यदि गृहोभूतो भवेत् तदा किं कर्त्तव्यम् ? तत्राह - 'अणवपं' इत्यादि, 'अणवद्वयं भिक्खु ' अनवस्थाप्यम् अनवस्थाप्यनामकप्रायश्चित्तस्थापन्नं भिक्षु 'गिरिभूयं गृहीभूतं प्रतिपन्नगृहस्थवेषं 'कप्पड़' कल्पते 'गणावच्छेयगस्स' गणावच्छेदकस्य 'उवट्ठा वित्तए' उपस्थापयितुम् पुनः दीक्षां दातुमिति । प्रकृतसूत्रस्य