________________
mmmmmmmmmmmm
व्यवहार पूर्वार्द्धभागेनेदं प्रतिपादितं यत् अनवस्थाप्यो भिक्षुः संवममार्गात् भ्रष्टत्वेन नवमप्रायश्चित्तभागी भवति स यदि साधुवेषेण समागत्य पुनः संयमप्रतिपत्यर्थ गणनायकस्य समीपमागच्छेत् तदा नास्ति अधिकारो गणनायकस्य यत्पुनरपि तथाविधं तं संयमे उपस्थापयेत् ।।
इदानी प्रकृतसूत्रस्यैवोत्तरभागेन चेदं प्रतिपादितम्-यत्.- यद्यनवस्थाप्यो भिक्षुर्गृहस्थवेषमादाय गणनायकस्य समीपं. पुनः संयमप्रतिपत्यर्थमुपस्थितो भवेत् तदा गणनायकेन तथाभूताय तस्मै पुनरपि संयमो दातव्यः। तत्र केन प्रकारेण पुनः स चारित्रे उपस्थापनीयः ! तदेवोत्तर. भागेन प्रतिपाद्यते-नवमप्रायश्चित्तस्थान प्राप्तं श्रमणं गृहस्थवेषसहश वेषं कारयित्वा गणावच्छेदकस्तं संयमे उपस्थापयेत्। गृहस्थवेषं कारयित्वा पुनः तस्मै दीक्षादाने कारणमिदम् यत्-अनवस्थाप्यश्रमणस्य ये दोषास्ते नागरिकाणां समक्ष प्रकटीभूताः आसन् ततो गृहस्थलिङ्गधारणेन तेषां नगरलोकानां विश्वासो जायेत यदनेच नवभप्रायश्चित्तभागित्वेन वान्तसंयम इति, ततः संघसमक्षं गणनायकेन तस्मै प्रायश्चित्तं दातव्यम् , दत्त्वा च प्रायश्चित्तं पुनस्तं संयमे उपस्थापयेत् । एवं करणे नान्येऽपि गच्छगता साधव एतादृशपापा चरणाद् भीता भवेयुः, 'पुत्रीभ्यो दण्डदानेन स्नुषा बिभ्यति नित्यशः' इति न्यायात् ॥ सू० १८ ॥
अमवस्थाप्यसूत्रमुक्त्वा सम्प्रति पाराञ्चितसूत्रमाह - पारंचियं इत्यादि ।
सूत्रम्-पारंचियं भिक्खं अगिहिभूयं नो कप्पइ तस्स गणावच्छेयगस्स उवद्वावित्तए पारंचियः भिक्खं मिहिभूयं कप्पड़ तस्स ममावच्छेअगस्स. उवठ्ठाविचए ।। सू० १९ ॥
छाया-पाराञ्चितं भिक्षुमगृहीभूतं नो कल्पते तस्य गणावच्छेदकस्योपस्था. यितुम् । पारास्चित भिक्षु गृहीभूत कल्पते तस्य गणावच्छेदकस्योपस्थापयितुम्॥ सू० १२ ॥
भाष्यम-'पारंचियं पाराञ्चितं पाराञ्चितनामकदशमप्रायश्चित्तस्थानप्राप्तम् 'भिक्खु भिक्ष श्रमणम् 'अगिहिभूय' अगृहीभूतम् अपरिगृहीतगृहस्थवेषम् 'नो कप्पई' नो कल्पते 'तस्स गणांवच्छेयगस्स' तस्य गणावच्छेदकस्य 'उपहावित्तए' उपस्थापयितुं पुनः संयमे प्रवेशयितुम् । यदि कदाचिद् यः कश्चित्साधुर्दशमपाराश्चितप्रायश्चित्तस्थान प्राप्तवान् , प्राप्य चाऽगृहीत गृहस्थवेष एव प्रायश्चित्तं ग्रहोतुं पुनः संयमं प्रतिपतुं च गगनायकसमीपे समुपस्थितो भवेत् स यावत्पर्यन्तं गृहस्थवेषं न परिधारयेत् , साधुवेषे एव व्यवस्थितो भवेत् तावत्पर्यन्तं गणनायको न तमुपस्थापयेत्, न कथमपि संयम तस्मै दद्यादितिभावः । कथम्भूतं पाराञ्चितमु स्थापयेदिति सूत्रोत्तरार्द्धनाह – 'पारंचियं' इत्यादि ।