________________
व्यवहारसूत्रे भाष्यम्-'भत्तपाणपडियाइक्खियं' भक्तपानप्रत्याख्यातम् , भक्तमोदनादिकं, पानं च जलादिकम् इति भक्तपाने, ते उभे भक्तपाने प्रत्याख्याते परित्यक्ते येन स भक्तपानप्रत्याख्यातः प्रत्याख्यातभक्तपानः तं 'भिक्खु' भिडं 'गिलायमाणं' ग्लायन्तं वातपित्तादिव्याधिना प्रस्यमानं 'नो कप्पई' नो कल्पते 'तस्स गणावच्छेय गस्स' तस्य गणावच्छेदकस्य 'निज्जूहित्तए' निहितुं निराकत्तुं न कल्पते किन्तु यदि तस्य रोगादिकारणाद् चिरजीवनेन भयमुत्पद्यते यथा'नाद्याप्यहं म्रिये, न जानेऽग्रे रोगादिना का का व्यथा भोग्या भविष्यती'-ति व्यग्रचित्तं तं धैर्यगर्भितवाक्यैराश्वासयेत् यथा- भविष्यति रोगान्मुक्तिः सर्व समीचीनं भविष्यती-ति नोद्विग्नतां भजतु भवान्' इत्येवमाश्वास्य तं तत्र दृढोकुर्यात् किन्तु न नियूहेत् , न निस्सारयेत् , अपि तु 'अगिलाए' अग्लान्या 'कदायं नीरोगो भविष्यति, कियत्कालं यावदस्य वैयावृत्त्यं करणीयम्' इत्याद्यात्मसंकोचराहित्येन निर्जराभावं मनसि निधाय दृढमनोभावेनेत्यर्थः 'करणिज्ज वेयावडियं' तस्य वैयावृत्त्यं करणीयं येन तस्य तद् भक्तपानप्रत्याख्यानाख्यमनशनवतं चित्तसमाधिपूर्वकं समाप्यते । तद् वैयावृत्त्यं तावत् करणीयं यावत् स रोगान्मुक्तो भवेत् । रोगमुक्त्यनन्तरं तस्य यथालघुस्वकं प्रायश्चित्तं दातव्यमिति सूत्रसंक्षेपार्थः । अस्य यत् लघुस्वकं प्रायश्चित्तं कथितं तत् तस्य भक्तपानप्रत्याख्यानावस्थायां रोगकाले यत् किमपि प्रायश्चित्तन मापन्नं स्यात् तदपनोदनविषयकं विज्ञेयमिति भावः ॥ सू० १६ ॥
सूत्रम् -- अजायं भिक्खु गिलायमाणं नो कप्पई तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तस्स करणिज्ज वेयावडियं जाव तओ रोगायंकाओ विप्पमुक्के, तो पच्छा अहालहुस्सगे नामं ववहारे पहवियत्वे सिया ॥सू०१७॥
छाया-अर्थजातं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नियुहितुम्, अग्लान्या तस्य करणीयं वैयावृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ स. १७ ॥
भाष्यम्-'अट्ठजाय' अर्थजातम् , अर्थेन धनेन जातं-कार्य यस्य सः अर्थजातः यद्वा अर्थः किमपि प्रयोजनं धनार्जनादिरूपः, स जातो यस्य स अर्थजातः, तं धनार्जनवाञ्छाभिभूतं भिडं 'गिलायमाणं' ग्लायन्तं लोभोद्रेका रोगाक्रान्तं 'नो कप्पइ' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जूहित्तए' निर्वृहितुं निराकर्तुम् , किन्तु अर्थलुब्धं तम् अर्थस्य निस्सारताप्रदर्शनपूर्वकं प्रतिबोध्य 'अगिलाए तस्स करणिज्जं वेयावडियं' तस्य रोगाक्रान्तस्य भग्लान्या आत्मसंकोचराहित्येन वैयावृत्त्यं करणीयम् । शेषं पूर्ववत् ।। सू० १७ ॥