________________
भाष्यम् उ० २ सू० ९-१३
क्षिप्तचित्तादिभिक्षूणां वैयावृत्त्यविधिः ५७ सूत्रम्-खित्तचित्तं भिक्खु गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जाव तओ रोगायंकाओ विप्पमुक्को, तओ पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियत्वे सिया॥ सू०९॥
छाया-क्षिप्तचित्तं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितुम् अग्लान्या तस्य करणीयं वैयावृत्त्यं यावत्ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् । सू० ९॥
भाष्यम्--'खित्तचित्त' क्षिप्तचित्तं क्षिप्तं भयोद्वेगादिना विक्षिप्तमवशं चित्तं यस्य स क्षिप्तचित्तः भ्रान्तचित्त इत्यर्थः । यो रागतो भयतो राजाद्यपमानतो वा, इत्यादिकारणवशाद् भ्रान्तचित्तो भवेत् , तम् भिक्खुं' भिक्षु 'गिलायमाणं' ग्लायन्तं रोगातकादिना ग्लानिमुपगच्छन्तं 'नो कप्पई' नो कल्पते तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य निज्जूहित्तए' निर्वृहितुं निराकर्तुम् इत्यादि सबै पूर्ववदेव व्याख्येयम् ।। सू० ९ ॥
सूत्रम्--दित्तचित्तं भिक्खु गिलायमाणं नोकप्पड तस्स गणावच्छेयगस्स निजूहित्तए, अगिलाए तस्स करणिज्ज यावडियं जाव तओ रोगायंकाओ विप्पमुक्को, तो पच्छा तस्स अहालघुस्सगे नामं वव हारे पट्टवियन्वे सिया ॥ सू० १०॥
छाया--दीप्तचित्त भिर्धा ग्लायंतं नो कल्पते तस्य गणावच्छेदकस्य निर्वृहितुम् , अग्लान्या तस्य करणीयं वैयावृत्त्यम् यावत् ततो रोगातङ्काद् विप्रमुक्तः । ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० १० ॥
भाष्यम्--'दित्तचित्तं' दीप्तचित्तम् , तत्र दीप्तं प्रदीप्तम् इन्धनेनाऽग्निरिव अकस्माल्लाभदुर्जेयशत्रुजय-मदादिना मानसिकरोगेण वा दीप्तमिव दीप्तं चित्तं यस्य स अकस्माल्लाभादिना विक्षिप्तचित्त इत्यर्थः, तं तादृशं दीप्तचित्तम् 'भिक्' भिक्षु 'गिलायमाणं' ग्लायन्तं ज्वरादिरोगाभिभूतं 'नो कप्पइ तस्स गणावच्छेयगस्स निहित्तए' न कल्पते तस्य गणावच्छेदकस्य नियूहित्तुं निराकर्तुम् , इत्यादि सर्वं पूर्ववदेव ज्ञातव्यम् ॥ सू० १०॥
सूत्रम्-जक्खाइट्ट भिक्खु गिलायमाणं नो कप्पइ तस्य गगावच्छेयगस्स निज्जहित्तए, अगिलाए तस्स करणिज्ज वेयावडियं जाव तो रोगायंकाओ विप्पमुक्को, तओ पच्छा तस्स अहालहुस्सगे नामं क्वहारे पट्टवियव्वे सिया ॥ सू० ११ ॥
छाया- यक्षाविष्टं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निर्वृहितुम् , अग्लान्या तस्य करणीयम् वैयावृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् । सू० ११ ।