________________
व्यवहारस्ने नायामयोग्यः अनाचीर्णतपोविशेषत्वेन पुनर्महाव्रतेषु स्थापितुमनर्ह इत्यर्थः, स च त्रिविधो भवति, उक्तञ्च बहत्कल्पसूत्रे
"तो अणवट्टप्पा पण्णत्ता तं जहा--साहम्मियाणं तेणं करेमाणे १, अण्णधम्मियाणं तेणं करेमाणे २, हत्थादाणं दलमाणे" ३ इति ।
त्रयः अनवस्थाप्याः प्रज्ञप्ताः, तद्यथा-साधर्मिकाणां स्तैन्यं कुर्वाणः १, अन्यधार्मिकाणां स्तैन्यं कुर्वाणः २, हस्तातालं ददानः । इतिच्छाया। अस्य व्याख्या तत्रैव (बृहत्कल्पसूत्रे) तत्र द्रष्टव्या ।
तं तादृशं नवम-प्रायश्चित्तस्थानं प्रतिपन्नं 'भिक्खु भिखं 'गिलायमाणं' ग्लायन्तं रोगातङ्कादिना कदर्थितशरीरम् 'नो कप्पई' नो कल्पते 'तस्स गणाच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जूहित्तए' निर्वृहितुं निराकर्तुम् । शेष सर्व परिहारकल्पस्थितसूत्रवदेव व्याख्येयम् ॥ सू० ७॥
सूत्रम्-पारंचियं भिक्खु गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जाव तओ रोगातंकाओ विष्पमुक्के तओ पच्छा तस्स अहा लहुस्सगे नामं ववहारे पठवियव्वे सिया ॥ सू० ८ ॥ ___ छाया-पाराञ्चितं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितम् अग्लान्या तस्य करणीयं वैयावृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥सू० ८॥
भाष्यम्--'पारंचियं' इति । 'पारंचियं' पाराश्चितं, पाराञ्चितं नाम दशमप्रायश्चित्तं तद्योगात् साधुरपि पाराञ्चितः पाराञ्चिको वा, तत्र पारं तीरं तपःप्रतिसेवनेनापराधस्य अश्चति गच्छति ततो दीक्षते यः स पाराञ्चिः स एव पाराञ्चितः पाराञ्चिको वा, यद्वा पारम् , अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां पारमञ्चति गच्छतीत्येवंशीलं पाराञ्चितं, तद्योगात् साधुरपि पाराञ्चितः । उक्तञ्च व्यवहारसुत्रे--
'तओ पारंचिया पण्णत्ता तंजहा-दुढे-पारंचिए १, पमते पारंचिए २, अन्नमन्नं करेमाणे पारंचिए ३' इति ।
__त्रयः पाराञ्चिताः प्रज्ञताः, तद्यथा-दुष्टः पाराञ्चितः १, प्रमत्तः पाराञ्चितः २, अन्योन्यं कुर्वाणः पाराञ्चितः ३ । इतिच्छाया । ... व्याख्या तत्रैव द्रष्टव्येति । तं तादृशं पाराञ्चितं दशमप्रायश्चित्तस्थानमापन्नम् 'भिक्खु' भिक्षु 'गिलायमाणं' ग्लायन्तं रोगातङ्कादिना ग्लानिमुपगच्छन्तम् 'नो कप्पई' नो कल्पते 'तस्सगणावच्छे यगस्स निज्जूहित्तए' तस्य गणावच्छेदकस्य निर्वृहितम् । इत्यादि सर्व पूर्ववद् व्याख्येयम् ॥ सू० ८॥