________________
भाष्यम् उ० २ सू० ६-८ ग्लानाऽनवस्थाप्यपाराञ्चिकभिक्षोस्तपोवाहनविधिः ५५ निर्जरणनिमित्तं 'तस्स करणिज्ज वेयावडियं' तस्य रोगादिना ग्लानिमुपगतस्य साधोवीवृत्त्यं करणीयं गणावच्छेदकेन । कियत्कालपर्यन्तं वैयावृत्त्यं करणीयम् ? तत्राह-'जाव' इत्यादि, 'जाव तो रोगायंकाओ विप्पमुक्को' यावता कालेन तस्मात् शरीरसंस्थितात् रोगातङ्कात् विप्रमुक्तो विनिर्मुक्तो भवेत् सावत्तस्य रोगातको नोपशाम्यति तावदित्यर्थः 'तो पच्छा' ततः पश्चात् रोगविमुक्त्यनन्तरम् 'तस्स' तस्य पारिहारिकस्य वैयावृत्त्यकारकस्य च 'अहालहुस्सए नामं ववहारे' यथालघुस्वक; स्तोको नाम व्यवहारः प्रायश्चित्तं, यथालघुस्वक इति स्तोकोऽल्पः, व्यवहारः प्रायश्चित्तम् । उक्तञ्च
"ववहारो आलोयण, सोही पायच्छित्त होति एगट्ठा । थोवो अहालहुस्सो, पट्ठवणा होई तदाणं' ॥१॥ व्यवहारः अलोचना शोधिः प्रायश्चित्तं भवन्ति एकार्थाः । तोको यथालघुस्वकः प्रस्थापना भवति तदानं (प्रायश्चित्तदानम्) ॥
'पद्ववियव्वे सिया' प्रस्थापयितव्यो दातव्यः स्यात्, रोगविमुक्त्यनंतरं तस्मै पारिहारिकाय यथालघुस्वकं स्तोकं प्रायश्चित्तं दातव्यं भवेदिति भावः । अत्र यथा लघुस्वकनामकं यत् प्रायश्चितं दातव्यत्वेन कथितं तत् पारिहारिकस्य रोगातङ्कावस्थायां यदतिचारजातमापन्नं भवेत्तद्विषयकम्, वैयावृत्यकारकस्य तु तन्निमित्तमाहासनयनादिविषये यदापन्नं तद् वेदितव्यम् एवमग्रेऽपि सर्वत्र वाच्यम् । अयं यथालघुस्वको व्यवहारः पञ्चदिवसात्मको भवति, तं च सद्योरोगमुक्तत्वेन निर्विकृतिकं कुर्वन् पूरयतीति । उक्तञ्च "निव्विगियं दायव्वं, अहालहुस्संमि सुद्धो व" इति निर्विकृतिक दातव्यं यथालधुस्वके शुद्धो वा (क्रियते) इति च्छाया । अथवा यस्मिन् श्रमणे यथालघुस्वको व्यवहारः प्रस्थापयितव्यो भदेत् तदा यदि यः प्रवचनप्रभावनादिमहति कारणे समुपस्थिते मनसि पापभयं निधाय प्रतिसेवनमकरोत् तदा स आलोचनाप्रदानमात्रत व शुद्धः क्रियते तचाचार्याद्यधीनमिति विवेकः ॥ सू० ६॥
सूत्रम्--अणवठ्ठप्पं भिक्खू गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स निज्जूहितए, अगिलाए तस्स करणिज्जं वेयावडियं जाव तो रोगायंकाओ विप्पमुक्को तओ पच्छा तस्स अहालहस्सए नामं ववहारे पट्टवियव्वे सिया ॥ सू० ७॥
छाया -- अनवस्थाप्यं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निर्वृहितुम् अग्लान्या तस्य करणीयं वैगवृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः ततः पश्चात् यथा लघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० ७॥
भाष्यम्-'अणवठ्ठप्प' इति । 'अणवठ्ठप्पं' अनवस्थाप्यम्-अवस्थापयितुमयोग्यं चौर्यादिरूपं नवमं प्रायश्चित्तम् तद्विपयकतपोऽनाचरणेन तद् योगात् साधुरपि अनवस्थाप्यः पुनरुत्थाप