________________
व्यवहारसूत्रे
करणीयम् । 'सेय संते बले' स चाऽधिकृतः पारिहारिकः सति धृतिसंहननादिसामर्थ्ये विद्यमानेऽपि निगूहितबलवीर्यः सन् 'अणुपारिहारिएणं कीरमाणं वेयावडियं' अनुपारिहारिकेण क्रियमाणं वैयावृत्त्यं स्वकीयपरिचर्या रूपम् 'साइज्जेज्जा' स्वादयेत् अनुमोदयेत् 'सम्यक् कृतं भवता यत् ग्लानस्य मे एतादृशं वैयावृत्त्यं कृतम्' इत्येवंरूपेणाऽनुमोदनं कुर्यात् । बलसद्भावे वैयावृत्त्यस्याऽनुमोदनेन प्रायश्चित्तमापद्यतेऽतः 'से य कसिणे तत्थेव आरुहियव्वे सिया' तदपि अनुमोदनादिजनितं प्रायश्चितं कृत्स्नं सर्वं तत्रैव वहमाने परिहारतपस्येवाऽनुग्रह कृत्स्नेनाऽऽरोपयितव्यं स्यात् अन्यतराऽकृत्य प्रतिसेवनजनितपापस्यापि निवृत्त्यर्थं यदपरं प्रायश्चित्तं प्राप्तं तस्यापि समावेशस्तस्मिन्नेव परिहारतपसि कर्त्तव्यः नतु प्रायश्चित्तान्तरं दातव्यमिति भावः ।
पारिहारकस्य वैयावृत्यप्रकारो यथा - यदि पारिहारको भाण्डं प्रत्युपेक्षितुं न शक्नोति तदाऽनुपारिहारिको भाण्डं प्रत्युपेक्षते, भिक्षार्थं हिण्डितुं न शक्नोति तदा भिक्षामानीय ददाति । एवमुत्तुं न शक्नोति तदा तमुत्थापयति, एवमुपवेष्टुमशक्तमुपवेशयति, लेपादिखरण्डितं पात्र बन्मादि प्रक्षालयितुं न शक्नोति तदा तत् प्रक्षालयति । एवं पारिहारको यद् यत् कार्यं कर्त्तुं न शक्नोति तत्तःसर्वं तस्यानुपारिहारिकः करोति । एवंविधं यथायोग्यं परिचर्याकरणरूपं वैयावृत्त्यमनुपारिहारिकेण करणीयं भवेत् । तच्च तावत् करणीयं यावत् परिहारिको बलिष्ठो जायते । यत्पुनः कर्त्तुं सामर्थ्यं भवेत् तदा तेन स्वयमेवानिगूहितबलवीर्येण करणीयं न तु स्वस्य बलवीर्थं गोपनीयमिति भावः || सू० ५ ॥
सूत्रम् - परिहारकष्पट्ठियं भिक्खु गिलायमाणं णो कप्पड़ तस्य गणावच्छेयमस्स णिज्जूहित्तए अगिला तस्य करणिज्जं वैयावडियं जाव तओ रोगायंकायो विष्पमुक्को, तओ पच्छा तस्स अहालहुस्सए नामं चक्हारे पहवियच्वे सिया || सू० ६ ॥
छाया - परिहार कल्पस्थितं भिक्षं ग्लायन्तं न कल्पते तस्य गणावच्छेदकस्य निर्यूहितुम्, अग्लान्या तस्य करणीयं वैयावृत्त्यं तावद् यावत् ततो रोगातङ्काद्विप्रमुक्तः, ततः पश्चात् तस्य यथा लघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० ६ ॥
भाष्यम् – 'परिहारकप्पट्ठियं' इति । 'परिहारकप्पट्ठियं' रिहारकल्पस्थितं परिहारनामके तपसि स्थितं परिहारतपो वर्हतमित्यर्थः । 'भिक्खुं' भिक्षु' 'गिलायमाणं' ग्लायन्तं ग्लानिं शरीरमान्यमुपागतं परिहारतपसा वातपित्ताद्युपचयापचयवशात् शरीराऽस्वास्थ्यमुपगतमित्यर्थः ' णो कपड' नो कल्पते नोपयुज्यते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य यस्य गणावच्छेदकस्य समीपे आगतो ग्लायन् साधुस्तं तस्य गणावच्छेदकस्य न कल्पते 'णिज्जूहितए' निर्यूहितु निवारयितुं वैयावृत्याSकरणादिना निष्कासयितुं न कल्पते । किन्तु 'अगिलाए' अग्लान्या ग्लानिरहितो यथा भवेत् तथा राजा षेष्टिमिव 'वेठ,' 'बेगार' इति प्रसिद्धं तद्वत् राजनिर्देशमिवानुमन्यमानेन ' सर्वज्ञादेश:' इति बुद्धया कर्म