________________
भाष्यम् उ० २ सू० ५-६
ग्लान परिहारकल्पस्थित भिक्षोस्तपोवाहनविधिः ५३ तत्रैकं कल्पस्थितं कृत्वा 'अवसेसा निव्विसिज्जा' अवशेषाः कल्पस्थिताऽतिरिक्ताः सर्वेऽपि श्रमणा निर्विशेयुः परिहारतपो गृहीत्वा तत् समापयेयुः । 'अह' अथ ततः परिहारतपसि प्रविष्टानां सर्वेषां परिहारतपसः समाप्यनन्तरकाले 'पच्छा' पश्चात् 'सेवि णिव्विसेज्जा' सोऽपि कल्पस्थितोऽपि निर्विशेत् परिहारतपो गृहीत्वा तत्समापयेत् । सर्वेषां प्रायश्चित्तकरणमावश्यकमिति एकः कल्पस्थितो भूत्वा स सर्वानपि परिहारतपः कारयति । तदनन्तरं तेषां परिहारतपःसमाप्त्यनन्तरं स स्वयमपि परिहारतपः कुर्यादिति भावः ॥ सू० ४ ॥
सूत्रम् - परिहारक पडिए भिक्खू गिलायमाणे अण्णयरं अकिच्चद्वाणं पडिसेवित्ता आलोएज्जा से य संथरेज्जा ठवणिज्जं ठावइत्ता करणिज्जं वेयावडियं,
से यणो संथरेज्जा अणुपारिहारिएणं करणिज्जं वेयावडियं, से य संते बले अणुपारिहारिएणं कीरमाणं वेयावडियं साइज्जेज्जा से य कसिणे तत्थेव आरुहियव्वे सिया ।। ० ५ ॥
छाया - परिहारकल्पस्थितो भिक्षुग्लयन् अन्यतरत् अकृत्यस्थानं प्रतिसेव्य आलोचयेत् स च संस्तरेत् स्थापनोयं स्थापयित्वा करणीयं वैयावृत्त्यम्, ।
स च नो संस्तरेत् अनुपारिहारिकेण करणीयं वैयावृत्यम् स च सति बले अनुपारिद्वारिकेण क्रियमाणं वैयावृत्त्यं स्वादयेत् तच्च कृत्स्नं तत्रैवारोहयितव्यं स्यात् ॥ सू० ५ ॥
भाष्यम् -- 'परिहारकप्पट्ठिए' इति । 'परिहारकप्पट्ठिए भिक्खू' परिहारकल्पस्थितो भिक्षुः परिहारनामके तपसि स्थितो वर्त्तमानः परिहारतपो वहन् 'गिलायमाणे' ग्लायन् रोगादिकारणेन ग्लानः सन् 'अण्णयरं अकिच्चद्वाणं' अन्यतरत् यत् किमप्येकम् अकृत्यस्थानं प्रतिसेवितवान्, 'पडिसेवित्ता' प्रतिसेव्य आलोएज्जा' आलोचयेत् स्वकृतापराधजातं स्ववचसा आचार्यादिसमीपे प्रकाशयेत् 'से य संथरेज्जा' स च संस्तरेत्, स च ग्लानः रोगादिना पीडितोऽपि यदि तादृशाकृत्यस्थानप्रतिसेवनसं जातपापविशुद्धयर्थं संस्तरेत् परिहारतपसो वहने समर्थों भवेत् ग्लायन्नपि अकृत्यस्थानप्रतिसेवनविशुद्धिबुद्धया परिहारनामकतपोवहनाय समुद्यतो भवेत् इत्यर्थः तदा तस्य 'ठवणिज्जं ठावइत्ता' स्थापनीयं स्थापयित्वा तदुचितप्रायश्चित्तं दत्त्वा एकेन केन - चित् स्थापितेन कल्पस्थितेनाऽनुपारिहारिकेण परिहारतपो वहतः श्रमणस्य 'कर णिज्जं वेयावडिय' वैयावृत्त्यं भक्तपानादिना करणीयं तस्य पारिहारिकस्याऽनुपारिहारिकेण तथाविधा परिचर्या कर्त्तव्या येन निर्विघ्नं यथा भवेत् तथा परिहारतपसः संपूर्णता भवेदिति ।
'से य णो संथरेज्जा' स च परिहारतपोवाहको रोगादिपीडितत्वेन धृतिसंहननबला - भावात् न संस्तरेत् परिहारत पोवहने कष्टमनुभवन् समर्थो न भवेत् तदा 'अनुपारिहारिएणं करणिज्जं वेयावडियं' अनुपारिहारिकेण तस्य वैयावृत्त्यं यथायोग्यं परिचर्यारूपं शुश्रूषणं