SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्र सूत्रम् - बहवे साहम्मिया एगयओ विहरंति एगे तत्थ अण्णयरं अकिञ्चद्वाणं पडिसेवित्ता आलोएज्जा, तत्थ ठवणिज्जं ठावइत्ता करणिज्जं वेयावडियं ॥ सू० ३ ॥ छाया - बहवः साधर्मिकाः पकतो विहरन्ति एकस्तत्राऽन्यतरद् अकृत्यस्थान प्रतिसेव्याऽऽलोचयेत् तत्र स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यम् ॥ सू० ३॥ ५३ भाष्यम् -'बहवे साहम्मिया' इति । 'बहवे साहम्मिया' बहवोऽनेके त्रयश्चत्वारः पञ्चादिका वा साधर्मिकाः श्रमणाः 'एगयओ विहरंति' एकतः सहैव विहरन्ति - तिष्ठन्ति 'एगे तत्थ' एक स्तत्र तेषु बहुषु साधुषु मध्ये एकः कश्चित् श्रमणः 'अण्णयरं अकिच्चद्वाणं' अन्यतरत् अकृत्यस्थानम् अनेकेषु प्राणातिपातादिलक्षणाऽकृत्यस्थानेषु मध्याद् अन्यतरद् यत् किमप्येकमकृत्यस्थानं प्रति सेवितवान् । 'पडिसेवित्ता' प्रतिसेव्य तादृशाऽन्यतरदकृत्यस्थानं सेवित्वा 'आलोएज्जा' आलोचयेत् आचार्यादीनां पुरतः प्रकटीकुर्यात्, आलोचनानन्तरं ' तत्थ' तत्र तस्मिन्नालोचके साधौ 'ठवणिज्जं ठावइत्ता' स्थापनीयं स्थापयित्वा स्थापनीयं दातुं योग्यं परिहारतपोरूपं प्रायश्चित्तं स्थापयित्वा आरोप्य तं परिहारतपसि प्रवेश्येत्यर्थः तदितरः कोऽपि साधुः कल्पस्थित आनुपारिहारिको भूत्वा तेन आनुपारिहारिकेण कल्पस्थितेन तस्य 'करणिज्जं वेयावडियं' वैयावृत्त्यम् आहारादिना शुश्रूषणं करणीयमिति । अयं भावः--ते बहवः साधर्मिका गीतार्था भगीतार्था मिश्रा वा भवेयुः तत्र यदि rat द्वौ त्रयश्चतुरादिका वा अकृत्यस्थानप्रतिसेविनो भवन्ति तदा तेषाम् आनुपारिहारिकत्वं कल्पस्थितत्वं तपोवाहकत्वं वैयावृत्यकारकत्वं च सर्वं यथायोग्यं यथोचितं विधिना करणीयमिति ॥ सू० ३ ॥ सूत्रम् - बहवे साहम्मिया एगयओ विहरंति सव्वेवि ते अण्णयरं अकिच्च - द्वाणं पडिसेवित्ता आलोएज्जा, एगं तत्थ कप्पागं ठावइत्ता अवसेसा णिव्विसिज्जा अह पच्छा सेवि णिव्विसेज्जा ॥ सू० ४ ॥ छाया - बहवः साधर्मिका एकतो विहरन्ति सर्वेऽपि ते अन्यतरत् अकृत्यस्थानं प्रतिसेव्याऽऽलोचयेयुः, एक तत्र कल्पकं स्थापयित्वा अवशेषाः, निर्विशेयुः, अथ पश्चात् सोऽपि निर्विशेत् ॥ सू० ४ ॥ भाष्यम् -'बहवे साहम्मिया' इति 'बहवे साहम्मिया' बहवोऽनेके साधर्मिकाः 'एगयओ विहरंति' एकतः सहैव विहरन्ति - तिष्ठन्ति, कदाचित् 'सव्वेवि ते' सर्वेऽपि ते श्रमणाः 'अण्णयरं अकिच्चद्वाणं' अन्यतरद् अकृत्यस्थानं प्रति सेवितवन्तः 'पडिसेवित्ता' तादृशाऽन्यतरद् अकृत्यस्थानं प्रतिसेव्य ‘आलोएज्जा' आलोचयेयुः पापस्थानस्याssलोचनां कुर्युः, आलोचनां कर्त्तुमिच्छेयुः, तदा 'एगं तत्थ कप्पागं ठावइत्ता' एकं कमप्येकं श्रमणं तत्र प्रायश्चित्तकाले कल्पकं कल्पस्थितं स्थापयित्वा
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy