________________
भाष्यम् उ०२ सू०१-४
सहविहरतां व्यादीनां तपोवहनविधिः ५९ सूत्रम्-दो साहम्मिया एगयओ विहरंति दोवि ते अण्णयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा एगं तत्थ कप्पागं ठावइत्ता एगे णिव्विसेज़ा अह पच्छा सेवि णिव्विसेज्जा ॥ सू० २॥
छाया-द्वौ साधर्मिकौ एकतो विहरतः द्वावपि तौ अन्यतरत् अकृत्यस्थानं प्रतिसेव्याऽऽलोचयेताम्, एकं तत्र कल्पस्थितं स्थापयित्वा एको निर्विशेत् अथ पश्चात् सोऽपि निधिशेत् ॥ सू० २॥
भाष्यम्-'दो साहम्मिया' इति । 'दोसाहम्मिया' द्वौ साधर्मिकौ, तत्र द्वौ समानधर्मिणौ एकगच्छीयौ द्वौ श्रमणौ इत्यर्थः 'एगयओ विहरंति' एकतः एकत्र द्वौ मिलित्वा विहरतः तिष्ठतः, तयोर्द्वयोर्मध्ये 'दोवि ते' द्वावपि तौ उभावपि 'अण्णायरं' अन्यतरत् अष्टादशपापस्थानेषु किमप्येकं, मोहनीयोदयात् 'अकिच्चट्ठाणं' अकृत्यस्थानं प्राणातिपातादिकं 'पडिसेवित्ता' प्रतिसेव्य तादृशान्यतराकृत्यस्थानस्य प्रतिसेवनं कृत्वा 'आलोएज्जा' आलोचयेताम् , स्वकीयं स्वकीयमपराधमाचार्यादेः पुरतः क्रमशः प्रकटीकुर्याताम् । तत्र यदि द्वावपि श्रमणौ गीतार्थी भवेताम् , ततः 'एगं तत्थ कप्पागं ठावइत्ता' तत्र तयोर्द्वयोर्मध्यात् एकं यं कमप्येकं कल्पकं कल्पस्थितमानुपारिहारिकं स्थापयित्वा 'एगे णिविसेज्जा' एकः तदन्यः कल्पस्थितादितरः श्रमणो निर्विशेत् गृहीतपरिहारतपः समापयेत् तयोर्मध्ये एकं कल्पस्थितं कल्पयित्वा तदन्यः परिहारनामकं तपः कुर्यात् । यश्च कल्पस्थितः स एव चाऽनुपरिहारिको भवति, तत्र तृतीयादेः साधोरभावात्, स च कल्पस्थित आनुपारिहारिकस्तस्य परिहारतपःप्राप्तस्य तावत्कालं वैयावृत्यं कुर्यात् यावत्तस्य परिहारतपो न समाप्यते इति । 'अह पच्छा सेवि णिविसेज्जा' अथ पश्चात् सोऽपि निर्विशेष, अथ तस्य पूर्वप्रतिपन्नस्य परिहारतपःसमाफ्यमन्तरं सोऽपि कल्पस्थितोऽपि निर्विशेत् परिहारतपो गृहीत्वा तत्समापयेत् । यः परिहारतपःकरणाय प्रवृत्तः तस्य परिहारतपःसमाप्त्यनन्तरं स्वयमपि स्वस्य पापापनोदाय परिहारतपः कुर्यादित्यर्थः । यश्च पूर्व परिहारतपः कृतवान् स कृतपरिहारतपःकर्मा कल्पस्थितो भूत्वा आनुपारिहारिको भवति तेन तस्य वैयावृत्त्यं करणीयं, यावत्पर्यन्तं तस्य परिहारतपसः समाप्तिर्भवेत् तावत्तस्य वैयावृत्त्यमाचरेत् । तृतीयस्य कस्यचिदपि श्रमणस्याऽभावे द्वावेव परस्परं क्रमशः तपोवाहको वैयावृत्यकारकश्च भवेदिति भावः । .
अत्रायं विवेकः-यदि पुन योर्मध्ये एकतरः अगीतार्थो भवेत् तदा शुद्धतपोरूपमेव तस्य प्रायश्चित्तं भवेत् न तु परिहारतपः, अगीतार्थत्वेन परिहारतपोयोग्यताया अभावात् । अथ यदि द्वावपि अगीतार्थावेव भवेताम् तदा द्वाभ्यामपि शुद्धमेव तपः प्रतिपद्यते न तु परिहारतपः, द्वयोरपि परिहारतपोरूपप्रायश्चित्तस्यायोग्यत्वादिति ॥ सू० २॥