________________
अथ द्वितीयोदेशकः प्रारभ्यतेअथ प्रथमोद्देशकस्यान्तिमसूत्रेण सहास्य द्वितीयोदेशकप्रथमसूत्रस्य कः सम्बन्ध ! इत्यत्राह भाष्यकारः 'पुच्वं' इत्यादि । गाथा-पुन्वं एगो सेवइ, पावट्ठाणं च किंपि तस्स विही ।
वुत्तोऽणेगाणं इह, सो वुच्चइ एस संबंधो ॥१॥ छाया-पूर्वम् एकः सेवते पापस्थानं च किमपि तस्य विधिः ।
प्रोक्तः अनेकेषां इह स प्रोच्यते एष सम्बन्ध्रः ॥ १ ॥ व्याख्या-पूर्व प्रथमोदे शकस्य चरमे सूत्रे एकः कश्चित् भिक्षुः किमपि प्राणातिपातादिकं पापस्थान सैवते तस्य विधिः प्रोक्तः । इह अत्र द्वितीयोदेशकप्रथमसूत्रे यादीनां पापस्थानसेवने स विधिः प्रोच्यते, एषः पूर्वापरोदेशकयोः सम्बन्धो वर्त्तते ॥१॥
अनेन सम्बन्धेनायातस्यास्य द्वितीयोदेशकस्येदमादिसूत्रम्-'दो साहम्मिया' इत्यादि ।
सूत्रम्-दो साहम्मिया एगयो विहरंति एगे तत्थ अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा ठवणिज्ज ठावइत्ता करणिज्जं वेयावडियं ॥ सू० १॥
छाया-द्वौ साधर्मिको पकतो विहरतः एकस्तत्राऽन्यतरत् अकृत्यस्थानं प्रतिसेव्य आलोचयेत् स्थापनीय स्थापयित्वा कर्त्तव्यं वैयावृत्त्यम् ॥ सू० १॥
भाष्यम्-'दो साहम्मिया' इति । 'दो साहम्मिया' द्वौ साधर्मिकौ, तत्र द्वौ द्वित्वसंख्याविशिष्टौ समानः सदृशो धर्मः श्रुतचारित्रलक्षणो विद्यते ययोस्तौ द्वौ साधर्मिको समानधर्मिणौ एकसामाचारीकावित्यर्थः 'एगयओ' एकतः एकत्र समुदितौ सन्तौ । 'विहरंति' विहरतः तिष्ठतः, 'एगे तत्थ' एकः कश्चित् तत्र द्वयोर्मध्ये 'अन्नयरं' अन्यतरत् यत् किमप्येकम् 'अकिच्चट्ठाणं' अकृत्यस्थानं प्राणातिपातादिलक्षणम् 'पडिसेवित्ता'.प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकृतातिचारादिकं स्वचसा स्वकीयाचार्यादिसमीपे प्रकाशयेत् , तत्र यदि अगीतार्थकः प्रतिसेवनां प्राणातिपातादिलक्षणं पापं प्रतिसेवितवान् तदा तादृशाय आचार्योंदिः ? शुद्धमेव उपवासाऽऽचामाम्लादिकमेव तपो दद्यात् न तु परिहारतपः, तस्य जडमतित्वेन परिहारतपोऽयोग्यत्वात् । . अथ यदि स प्रतिसेवको गीतार्थो भवेत् तर्हि तस्मै गीतार्थाय परिहारनामकं तपो दद्यात् । 'ठवणिज्जं ठावइत्ता' स्थापनीयं तद् यथायोग्यं दातव्यप्रायश्चित्तं स्थापयित्वा दत्त्वा तत्र योऽन्यस्तदितरः साधुः स तस्य 'करणिज्ज वेयावडियं' वैयावृत्त्यं भक्तपानादिना शुश्रूषणं करणीयं भवेदिति ॥ सू० १॥