________________
भाष्म् उ० १ सू० ३५
प्रथमोदेशकसमाप्तिः ४९
व्यावर्त्तेत विशोधयेत् अकरणत्याऽभ्युत्तिष्ठेत्, यथाईं तपःकर्म प्रायश्चित्तं प्रतिपद्येत, इति । तथा च अर्हतां सिद्धानां पुरत तत्साक्षिपूर्वकम् आलोचयेदात्मनो दोषजातं प्रकटयेत्, प्रतिक्रामेत् मिथ्यादुष्कृतं दद्यात्, अत्मानं निदेत्, गर्हेत, अकृत्यकरणादात्मानं व्यावर्त्तेत विनिवर्त्तेत, कृतातीचारविधूननेन आत्मानं विशोधयेत्, अकृत्यस्य पुनरकरणातयाऽभ्युत्तिष्ठेत् यथायोग्यम् अकृत्यस्थानानुसारि तपःकर्म तपःकरणरूपं छेदादिप्रायश्चित्तं प्रतिपद्येत स्वीकुर्यादिति । 'त्ति बेमि' इति ब्रवीमि एवं प्रकारेण सुधर्मस्वामी जम्बूस्वामिनं प्रोवाच - यदहं प्रायश्चित्तविषयेऽश्रौषं तीर्थ
"
करमुखात् तत्ते कथयामि, इति सूत्रार्थः ॥ सू० ३५ ॥
इति श्री - विश्वविख्यात - जगद्वल्लभ- - प्रसिद्धवाचक - पञ्चदशभाषा कलितललित कलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त" जैनाचार्य ” – पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलाल ति विरचितायां “व्यवहारसूत्रस्य” भाष्यरूपायां व्याख्यायां
प्रथम उद्देशकः समाप्तः ॥ १ ॥