SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे बहिबाह्यदेशे ग्रामस्य बहिःप्रदेशे, अथवा 'नगरस्स वा' नकरस्य नगरस्य वा, न करो गोमहिण्यादीनां विद्यते यत्र तत् नगरं अष्टादशकरवर्जितं, तस्य, 'निगमस्स वा' निगमम्य वा, तत्र निगमः प्रभूततरवणिग्जननिवासः, तस्य वा, 'रायहाणीए वा' राजधान्या वा, तत्र राज्ञाधिष्ठितं नगरं राजधानी, तस्या वा, 'खेडस्स का' खेटस्य वा, तत्र पांशुप्राकारनिबद्ध खेट, तस्य वा, 'कब्बडस्त वा' कर्बटस्य वा, तत्र कर्बटे क्षुल्लकनगरम्, तस्य वा, 'मडंवस्स वा' मडम्बस्य, वा तत्र मडम्बः सार्धगव्यूत्यन्तर्गतग्रामान्तररहितः, तस्य वा, 'पट्टणरस वा' अस्य - पत्तनस्य वा पट्टनस्य वेतिच्छाया, तत्र पत्तनं समस्तवस्तुप्राप्तिस्थानं जलस्थलनिर्गमप्रवेशं नगरम्, पट्टनं यत् नौभिरेव गम्यम् , उक्तञ्च पत्तनं शकटैर्गम्य, घोटकै नौंभिरेव वा। नौभिरेव च यद्गम्य, पट्टनं तत्प्रचक्षते ॥१॥ इति तादृशस्य पत्तनस्य वा पट्टनस्य वा, 'दोणमुहस्स वा' द्रोणमुखस्य वा, तत्र द्रोणमुखं जलस्थलपथोपेतो जननिवासः, तस्य वा, 'आसमस्स वा' आश्रमस्य वा, तत्राश्रमो नाम आश्रयविशेषः तापसादीनां, तस्य वा, 'संबाहस्य वा' संबाधस्य वा, संबाधो जनसंमर्दः यथा यात्रादौ दिग्म्य आगत्य स्थानविशेषे जनानां समावेशः, तस्य वा, 'संनिवेसस्स वा' संनिवेशः सेनानिवेशः समागतसार्थवाहादि निवासस्थानं वा, तस्य बहिः पूर्वोक्तानां प्रामादीनां बहिःप्रदेशे गत्वा तत्र 'पाईणाभिमुहे वा' प्राचीनाऽभिमुखो वा पूर्वाऽभिमुखो वा अथवा 'उदीणाभिमुहे वा उदीचीनाऽभिमुखो वा उत्तराभिमुखो वा सन् पूर्वदिगभिमुखः अथवा उत्तरदिगाभिमुखो वा भूत्वेत्यर्थः । अत्र पूर्वोत्तरयोर्दिशोर्ग्रहणं तयोरेवालोचनायां प्रशस्तत्वज्ञापनार्थ, पश्चिमद क्षिणयोर्दिशोरालोचनायामनर्हत्वादिति । तत्र गत्वा किं कुर्यात् ? तत्राह-'करकल.' इत्यादि । 'करयलपरिग्गहियं' सिरसावत्तं मत्थए अंजलिं कटु' तत्र करतलाभ्यां संहताभ्यां हस्ततलाभ्यां प्रकर्षण गृहीतः स्थापित इति करतलपरिगृहीतस्तम् , तथा शिरसि आवर्त्तते दूरमिव सीमितदेशं गत्वा पुनस्तत्रैव निवर्त्तते स आवतः चक्राकृतिः, तद्वत् यस्य, स एव शिरसावर्त्तः, तादृशं मस्तके अंजलिं कृत्वा स्थापयित्वा 'एवं वएज्जा' एवं वदयमाणप्रकारेण वदेत् , तदेव दर्शयति-'एवइया मे' इत्यादि, ‘एवइया मे अवराहा' एतावन्तो ममापराधाः अकृत्यस्थानसेवनरूपाः एतावन्तः सन्ति 'एवइक्खुत्तो अहं अवरद्धो' एतावत्कृत्वः एतावतो वारान् यावदहमपराद्धः अकृत्यस्थानसेवनरूपाऽपराधयुक्तो जातोऽस्मि, एवं सविनयमुक्त्वा 'अरहंताणं सिद्धाणं अंतिए' अहर्ता सिद्धानां समीपे तान् साक्षी कृत्येत्यर्थः 'आलोएज्जा' आलोचयेत्, सर्व स्वापराधजातं स्ववचसा प्रकटीकुर्यात् , प्रतिक्रामेत्, निंदेत, गर्हेत,
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy