SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भाग्यम् उ०१ सू० ३५ आचार्योपाध्यायाचेकैकाभावे आलोचनाविधिः ४ नादिकं कर्त्तव्यम् ? तत्राह-'जत्थेव' इत्यादि । यदि पुनः सांभोगिक साधर्मिकं न पश्येदालोचनार्थ तदा 'जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा' यत्रैवान्यसांभोगिकं साधर्मिकं पश्येत् तत्रैव स्थानविशेष अन्यसांभोगिकम् अन्यगच्छीयं स्वसंभोगमर्यादाभिन्नं किन्तु साधर्मिकं समानधर्मिकं जिनोक्तपञ्चमहाव्रताराधकं पश्येत्, तमपि कथम्भूतं साधर्मिकं तत्राह-'बहस्सुयं' इत्यादि 'बहुस्सुयं बब्भागम' बहुश्रुतं छेदादिप्रायश्चित्तसूत्रपठनपाठनकुशलं बह्वागमं सूत्रार्थतः आगमज्ञानिनं पश्येत् 'तस्संतिए 'आलोएज्जा.' तस्यान्यसांभोगिकसाधर्मिकस्य सविधे आलोचयेत् इत्यादि सर्व पूर्ववद व्याख्येयम् ३ । 'नो चेव अन्नसंभोइयं' नो चैव अन्यसांभोगिकं यदि पुनरन्यसांभोगिकं साधर्मिकं बहुश्रुतं बह्वागमं नो पश्येत् नो लभेत तदा 'जत्थेव सारूवियं पासेज्जा' यत्रैव स्थाने उपाश्रये वा सारूपिकं समानं रूपं सरूपं तत्र भवः सारूपिकः तं सारूपिकं स्वसमानवेषम्, स्वसमानालोचनाकरणेच्छुकं वा कश्चिन्मुनिं पश्येत् कथम्भूतं सारूपिकम् ? तत्राह-'बहुस्सुयं' इत्यादि 'बहुस्सुयं बब्भागमं बहुश्रुत बह्वागमं पूर्वोक्तप्रकारकं पश्येत् 'तस्संतियं आलोएज्जा.' तस्यामन्तिके मालोचयेत्, परस्परमालोचनां कुर्यात् इत्यादि पूर्ववदिति ४ । 'नो चेव सारूवियं' नो चैव खलु सारूपिकं यदि पुनः सारूपिकं बहुश्रुतं बह्वागमं नैव खलु पश्येत् नो लभेत तदा 'जत्थेव' यत्रैव स्थाने 'समणोवासगं पच्छाकडं पासेज्जा' श्रमणोपासकं श्रावकं कीदृशम् ? 'पच्छार्ड'–पश्चात्कृतं यः पूर्व साधुपर्याये स्थितः बहुश्रुतो बवागम आसीत् ततस्तं साधुपर्यायं मुक्त्वा गृहस्थो भवति स पश्चात्कृतः कथ्यते, तं पश्येत् कीदृशम् ? 'बहुस्सुयं बब्भागम' बहुश्रुतं बह्वागमं 'तस्सतिए' तस्यान्तिके 'आलोएज्जा.' आलोचयेत् आलोचनादि सर्वविधिं पूर्वोक्तप्रकारेणैव कुर्यात् ५।। 'नो चेव समणोवासगं पच्छाकडं पासेज्जा' यदि पूर्वोक्तं श्रमणोपासकं पश्चास्कृतमपि न पश्येत् तदा-'जत्थेव सम्मंभावियाई' यत्रैव खलु स्थानविशेषे सम्यग्भावितानि जिनवचनवासितान्तःकरणानि 'चेइयाई' चैत्यानि 'चितिसं ज्ञाने' इति धातोनिष्पन्नं चैत्य, तानि सम्यग्भावयुक्ताः गृहस्था इत्यर्थः, येषामन्तःकरणे न रागो न चेा स्वपरगुणावगुणविवेकज्ञाः केऽपि गृहस्था भवेयुस्तान् पश्येत्, तन्मध्यात् कश्चिदेकं विवेकबुद्धया आलोचनादानकुशलं निरीक्षेत, बहुवचनं चात्र तादृशगृहस्थानां बहुत्वात् 'तेसंतियं आलोएज्जा.' तेषामन्तिके समीपे आलोचयेत्, इत्यादिपदानि पूर्ववदेव व्याख्येयानीति ६ । अथ यदि 'नो चेव सम्मंभावियाई नैव सम्यग्भावितानि चैत्यानि तादृशान् गृहस्थान् नो पश्येत् तदा-'बहिया गामस्स वा' बहिर्गामस्य वा ग्रामः वृतिवेष्टितो जननियासः, तस्य ग्रामस्य
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy