________________
४६
व्यवहारसूत्रे
क्षेपस्य अयोग्यत्वात् 'ते संतियं आलोएज्जा' तेषाम् अन्तिके आलोचयेत् तेषामाचार्योपाध्यायानामन्तिके समीपे आलोचयेत् आलोचनां कुर्यात् आचार्योपाध्यायानां समीपे स्वकृताऽतिचारजातं म्लायता वदनेन वचनद्वारा नतु भावभङ्गया जनान्तरमुखेन वा प्रकटीकुर्यात् । 'पडिकमेज्जा' प्रतिक्रामेत् पापात् प्रत्यावर्त्तितुं मिथ्यादुष्कृतं दद्यात् 'निंदेज्जा' निंद्यात् स्वोपार्जितपापकर्मणः स्वात्मानमेव साक्षीकृत्य निन्दां कुर्यात् 'गरहेज्जा' गर्हेत गुरु साक्षिकं विनिर्माय स्वकृतपापकर्मणो जुगुप्सां कुर्यात्, सर्वत्रापि निन्दनं गर्हणं च एतदुभयमपि परमार्थतस्तदैव भवति यदा पुनः तादृशकर्मकरणतः सर्वथैव प्रतिनिवर्त्तते तत आह- 'विउट्टेज्जा' व्यावत्र्त्तेत तस्मादकृत्यप्रतिसेवनात् सर्वथैव प्रतिनिवृत्तो भवेत् । प्रतिनिवर्त्तनेऽपि पापकर्मकरणतस्तादृशात्पापात् तदा मुच्यते यदा स्वकीयात्मनो विशोधिर्भवति, आत्मनो विशुद्धयभावे प्रतिनिवर्त्तनमपि निरर्थकमेवेत्याह- 'विसोहेज्जा' विशोधयेदात्मानं, पापमलप्रक्षालनेनात्मानं निर्मलीकुर्यात् । यथा भूमिलुठिताश्व उत्थाय शरीरसंलग्नरजोऽङ्गानि विधूय पूर्वापररजोनिर्गमेन निर्मलीभवति तथैव भिक्षुः पापरजो विधूय निर्मलीभवेत् सेयमात्मनो विशुद्धिः कृतस्य पापस्याsपुनःकरणतायामेव संभवति, अन्यथा कृतकर्मणः पुनःकरणतायामात्मविशुद्धेरसंभवात् तत्राह — 'अकर - याए अभुट्टेज्जा' अकरणतया पुनरभ्युत्तिष्ठेत् अकरणतया 'पुनरेवं न करिष्यामीति निश्चित्याऽभ्युत्तिष्ठेत् सावधानो भवेदित्यर्थः । पुनरकरणतया - अभ्युत्थानेऽपि पापाद्विशोधिः प्रायश्चित्तप्रतिपत्त्यैव भवति, नतु प्रायश्चित्तमन्तरेण पापापनोदनम्, अत आह- ' अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा' यथार्हं तपःकर्म प्रायश्चित्तं प्रतिपद्येत, यथार्ह यथायोग्यम् पापानुसारि येन पापनिवृत्तिर्भवेत्तादृशं तपःकर्म, तत्र तपोग्रहणमुपलक्षणं तेन छेदादिकं प्रायश्चित्तं पापनाशकं कर्म प्रतिपद्येत स्वीकुर्यात् १ | यदि आत्मीया आर्योपाध्याया न लभ्यन्ते तदा किं कुर्यात् ?
तत्राह
9
"
'नो चेव' इत्यादि 'नो चेत्र अप्पणो' नो चैव नैव यदि पुनः आत्मनः स्वगच्छस्य स्वगच्छ - संबन्धिनः ‘आयरियउवज्झाए' आचार्योपाध्याया आसन्नप्रदेशे न विद्यन्ते दूरादिदेशव्यवधानतो वा तान् न पश्येत् तदा - ' जत्थेव संभोइयं साहम्मियं पासेज्जा' यत्रैव सांभोगिकं साधर्मिकं पश्येत्, आचार्योपाध्यायानामलाभे यत्रैव खलु स्थानविशेषे उपाश्रये वा सांभोगिकं सामानसामाचारी कं साधर्मिकं पश्येत् कीदृशगुणसंपन्नं साधर्मिकम् ? तत्राह - ' - 'बहुस्सुयं' इत्यादि । 'बहुस्सुयं - बभागमं ' बहुश्रुतं बह्रागमं तत्र बहुश्रुतं नामाऽनेकविधछेदादिसूत्र मर्मकुशलम् उबतविहारिणं क्रियापात्रं, बह्वागमं सूत्रतोऽर्थतश्च प्रभूतागमज्ञातारं पश्येत्, 'तस्संतियं आलोएज्जा' तस्याऽन्तिके आलोचयेत् इत्यादि यथार्हं तपःकर्म प्रायश्चित्तं प्रतिपद्येत, इतिपर्यन्तं पूर्ववद् व्याख्येयम् २। 'नो वेव संभोइयं साहम्मियं ' नो चैव खलु नैव यदि खलु सांभोगिकं साधर्मिकं, यदि पुनः स्वकीयं सांभोगिकं साधर्मिकं बहुश्रुतं बह्वागमं न पश्येत् तदा कस्य समीपे आलोच
"