________________
४२
व्यवहारसूत्रे छाया-भिक्षुश्च गणादवक्रम्य परपाषण्डप्रतिमामुपसंपद्य खलु विहरेत्, स चेच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य स्खलु विहर्त्तम्, नास्ति खलु तस्य तत्प्रत्ययिकः कश्चित् छेदो वा परिहारो वा नाऽन्यत्र एकया आलोचनया ॥ सू० ३३ ॥
भाष्यम्-'भिक्व य' इति । 'भिक्खू य' यः कश्चिद् भिक्षुः राजाद्युपप्लवाऽशिवादिकारणात् 'गणाओ अवकम्म' गणात् स्वकीयगच्छात् अपक्रम्य पृथग्भूतो निस्सृत्येत्यर्थः 'परपासंडपडिमं उवसंपज्जित्ता णं' परपाषण्डप्रतिमा स्वकीयलिङ्ग परित्यज्य अन्यदीयं परदार्शनिकलिङ्गम् उपसंपच स्वीकृत्य खलु 'विहरेज्जा' विहरेत् यथावसरमुपद्रवकाले परकीयं लिङ्गं स्वीकृत्याऽपि अन्तःकरणेन पञ्चमहाव्रतं पालयन् विहरन् ‘से य इच्छेज्जा' स च परित्यक्तस्वकीयवेषो गृहीतपरकीयवेषः, अन्तर्भावितचारित्रः, स यदि 'दोच्चंपि' द्वितीयमपि वारं 'तमेव गणं उपसंपज्जित्ता गं' लिङ्गपरिवर्तनकारणे परिसमाप्ते सति तमेव गणं यस्मिन् गणे पूर्वमासीत् तमेव गच्छं पुनरपि उपसंपद्य प्राप्य खल्लु विहतम् इच्छेत्-वाञ्छेत् तदा 'नत्थि णं तस्स तप्पत्तिए' नास्ति खल्ल तस्य कारणवशात् स्वलिङ्ग परित्यज्य परपाषण्डलिङ्गं स्वीकृत्य पुनरपि स्वगच्छे समागच्छतः तत्प्रत्ययिकः परपाषण्डप्रतिमाग्रहणनिमित्तकः 'केइ छेए वा परिहारे वा' कश्चिच्छेदो वा परिहारो वा, तस्य तन्मूलकं छेदनामकं परिहारनामकं वा प्रायश्चित्तं न भवतीत्यर्थः । तत् किमत्र सर्वथैव प्रायश्चित्ताऽभावः ? तत्राह-'नन्नत्थ एगाए आलोयणाए' नान्यत्रैकया आलोचनया, आलोचना गुरुसमीपे स्वदोषाणां प्रकटनरूपा, तां विहाय नान्यत् प्रायश्चित्तं भवति, इति आलोचनामात्रमेव तस्य प्रायश्चित्तं भवति । राजाऽशिवायुपद्रवकारणमाश्रित्य परकीयलिङ्गधारणेनापि तस्य भावचारित्रसद्भावात् । यदि भिक्षुः रागद्वेषादिकारणेन स्वकीयगणादवक्रम्य परपाषण्डलिङ्गम् उपसंपद्य विहरेत्, कषायकारणे परिसमाप्ते सति द्वितीयमपि वारं तमेव गणमुपसंपद्य विहर्तुमिच्छेत्, अथै कुर्वतस्तस्य छेदो वा परिहारो वा प्रायश्चित्तमापद्येत अन्यदपि प्रायश्चित्तं भवति रागद्वेषादिकारणतः परकीयलिङ्गस्य धारणात्, तादृशस्य परकीयलिङ्गप्रतिपत्तौ संयमयतनाया असंभवाचेति विवेकः ।
अत्रेदं बोध्यम्-भिक्षुः तादृशस्य परपाषण्डस्य वेषं गृह्णाति यस्मिन् क्षेत्रे साधवो विचरन्ति तत्रत्यो राजा यस्य परपाषण्डस्य मतावलम्बी भवेत् एवं करणे राजा भिक्षु नोपद्रवति । कियत्कालपर्यन्तं तं लिङ्गं धारयेदित्याह-यावत्कालपर्यन्तं तत्र राजाघुपदवो नोपशाम्यति तावत्कालपर्यन्तं तल्लिङ्गधारणमावश्यकम् । तथा-उपशान्तेऽपि राजाघुपद्रवे यावत्कालं साधर्मिकाणां सार्थों न मिलति तावत्कालं तेनैव लिङ्गेन कालक्षेपं कुर्यात्, तत्क्षेत्रस्य सहसा त्यक्तुमशक्यत्वात् । कथित च भगवतीसूत्रस्य पञ्चविंशतितमे शतके संजयाधिकारे—'गृहस्थलिङ्गेऽन्यलिङ्गे वा छेदोपस्थापनीयं चारित्रं लभ्यते' इति । कारणमाश्रित्य लिङ्ग मुक्तवान् किन्तु यस्य चारित्रं निर्दोषं वर्तते