SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० ३३ परपाषण्डताप्राप्तस्य पुनरागमनविधिः ४१ भवति, संविग्नेषु मिलितथ्थ संविग्नसदृशो भवति बहुरूपनट इव यथावसरवर्त्तनशील इति भावः स च संक्लिष्टा संक्लिष्टभेदेन द्विविधः, तम्र - संक्लिष्ट संसक्तस्वरूपमाह गाथा - पंचासवपवत्तो जो, गारवत्तिगसंजुओ । इत्थी गहि संबद्धो, संसत्तो किलिगो ॥१॥ छाया - पञ्चाश्रवप्रवृत्तो यो गौरवत्रिकसंयुतः । स्त्रीहिषु संबद्धः संसक्तः संक्लिष्टकः ॥ १ ॥ यः पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः स पञ्चाश्रवप्रवृत्तः - हिंसाद्याश्रवेषु प्रवर्त्तनशीलः, गौरवत्रिकेन ऋद्धिरससातरूपेण संयुतः सहितः, तथा स्त्रीषु स्त्रीरूपेषु गृहिषु पूर्वपश्चात्संस्तुतेषु गृहस्थेषु सम्बद्धः स्त्रीगृहिभिः सह सम्बन्धकारको भवति स संक्लिष्टः संसक्तो ज्ञातव्य इति ॥ १ ॥ अथाऽसंक्लिष्टसंसक्तस्य स्वरूपं गाथाद्वयेनाह— गाथा - पासत्ये पासत्थो, अहछंदे होइ सोवि अहछंदो । एवं कुसीलमज्झे, ओसन्ने यावि एमेव ॥ १ ॥ संसत्ते संसत्तो, पियधम्मे होइ सोवि पियधम्मो । एवं अकिलिट्ठो, संसत्तो सो मुणेयवो ॥२॥ छाया -- पार्श्वस्थे पार्श्वस्थो, (भवति), यथाछन्दे भवति सोऽपि यथाछन्दः । एवं कुसीलमध्ये, अवसन्ने चापि एवमेव ॥ १ ॥ संसक्ते संसक्तः प्रियधर्मणि भवति सोऽपि प्रियधर्माः । एवमसं क्लिष्टः संसक्तः स ज्ञातव्यः ॥ २॥ अनायोरर्थ छायागम्य इति न वित्रियते इति । अत्रेदं विज्ञेयम् — पार्श्वस्थस्य यत्र स्थाने यत् प्रायश्चित्तं कथितं तस्मिन्नेव स्थाने यथाछन्दस्य प्रायश्चित्तं विवर्धयेत् 'अहाछंदे विवड्ढेज्जा' इति वचनात् कथमेवं क्रियते ? आगमनिरपेक्षवर्त्तित्वेन कुप्ररूपणाप्ररूपको भवति, कुप्ररूपणाया बहुदोषत्वात्तस्य प्रायश्चित्ताधिक्यं प्रोक्तम् । अत्राऽयं विवेकः–पार्श्वस्थवं भिक्षुगणावच्छेदकाचार्योपाध्यायानां सर्वेषामपि संभवति, यथाछन्दत्वं तु केवलं भिक्षोरेव भवति ततः पार्श्वस्थविषयकं सूत्र त्रिसूत्रात्मकं भवति, यथाछन्दसूत्र तु एकरूपमेवेति ॥ सू० २९-३२ ॥ सूत्रम् -- भिक्खू य गणाओ अवकम्म परपासंडपडिमं उवसंपज्जित्ताणं विहरेज्जा से य इच्छेज्जा दोच्चपि तमेव गणं उवसंपज्जित्ता णं विहरित्तए, नत्थि णं तस्स तप्पत्ति के छेए वा परिहारे वा नन्नत्थ एगाए आलोयणाए ।। सू० ३३ ॥ व्य, ६
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy