SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५० व्यवहारसूत्र भिक्खू य गणाओ अवकम्म ओसन्नविहारपडिमं उपसंपज्जित्ता णं विहरेज्जा से य इच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जित्ता णं विहरित्तए अत्थि या इत्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स बा उवट्ठावेज्जा ॥ सू० ३१॥ भिक्खू य गणाओ अवकम्म संसत्तविहारपडिमं उवसंपज्जित्ता णं विहरेज्जा से य इच्छेज्जा दोच्चंपि तमेव गण उपसंपज्जित्ता णं विहरित्तए अत्थि या इत्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारस्स वा उवहावेज्जा ॥ सू० ३२ ॥ छाया-भिक्षुश्च गणादवक्रम्य यथाछन्दविहारप्रतिमामुपसंपद्य खलु विहरेत् स च इच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहर्तुम् , अस्ति चात्र शेषं पुनरालोचयेत पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ॥ सू० २९ ॥ भिक्षुश्च गणादवक्रम्य कुशीलविहारप्रतिमामुपसंपध खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव गणमुपसंपश्च खलु विहर्तुम्, अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ।। सू० ३० ॥ __भिक्षुश्च गणादवक्रम्य अवसन्नविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहतम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपास्थापयेत् ॥ सू० ३१ ॥ भिक्षुश्च गणादवक्रम्य संसक्तविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य विहर्तम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ।। सू० ३२ ॥ भाष्यम्-'भिक्खू य गणाओ' इति । एतानि चत्वारि सूत्राणि पार्श्वस्थविहारप्रतिमासूत्रवदेव व्याख्येयानि नवरं विशेषः केवलमेतावानेव यदत्र यथाछन्दादयश्चत्वारो वाच्याः । 'अहाछंदो' ति यथाछन्दः छन्दोऽभिप्राय इच्छा वा, यथा- स्वाभिप्रायानुसारं स्वेच्छानुसारं वा यथैव स्वस्याभिप्रायः यथैव वा स्वस्येच्छा तथैव यो विचरति स यथाछन्दः आगमनिरपेक्षवर्तनशील इत्यर्यः ॥ सू० २९॥ 'कुसीले'–त्ति कुशीलः कुत्सितम् आगमनिषिद्धं शीलम् आचारः समितिगुप्त्यादिरूपो विद्यते यस्य स कुशीलः ।। सू० ३०॥ 'ओसण्णे'-त्ति अवसन्नः, 'काले विणए' इत्यादिरूपज्ञानादिसामा चार्यासेवने अवसीदति दुःखमनुभवति, अथवा सामाचारी वितथाम् असत्यां कुर्वन् वर्त्तते सः साध्वाचारपालने औदासीन्यवान् साध्वाचारपालननिरपेक्ष इत्यर्थः ॥ सू० ३१ ॥ 'संसत्ते' त्ति संसक्तः संसक्त इव संसक्तः पार्श्वस्थादीनां संविग्नानां वा सांनिध्यमासाद्य तत्तद्रपेण संनिहितदोषगुणः तत्रैव संसक्तो भवति यथा पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशो
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy