SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रायस् उ० १ सू० २८-३२ पार्श्वस्थादिविहारप्राप्तस्यपुनरागमने विधि ३९ सूत्रम्-भिक्खू य गणाओ अवक्फम्म पासस्थविहारपडिम उवसंपज्जित्ता णं विहरेज्जा से य इच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जित्ताणं विहरित्तए, अस्थि या इत्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उवट्ठावेज्जा ॥सू० २८॥ छाया-भिक्षुश्च गणादवक्रम्य पार्श्वस्थविहारप्रतिमामुपसंपद्य खलु विहरेस्, स च इच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहर्तुम्, अस्ति चात्र शेष पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ॥ सू० २८ ॥ भाष्यम्-'भिक्खू य' इति । भिक्खू 'य' यः कश्चिद् भिक्षुश्च 'गणाओ अवक्कम्म' गणात् स्वगच्छात् अपक्रम्य बहिर्निर्गत्य, 'पासत्थविहारपडिम' पार्श्वस्थविहारप्रतिमाम्, पार्श्वस्थस्य, पार्श्वे ज्ञानादीनां समीपे नतु ज्ञानादिषु तिष्ठतीति पावस्थः, अथवा अस्य पाशस्थ इतिच्छाया, तत्र पाशाः बन्धहेतुभूता मिथ्यात्वादयः, तेषु तिष्ठतीति पाशस्थः चारित्राचारशिथिलस्तस्यप्रतिमा-तद्विषयाऽवस्था, ताम् 'उवसंपज्जित्ताणं' उपसं पद्य प्रतिपद्य खलु 'विहरेज्जा' विहरेत् । 'से य इच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जित्ताणं विहरित्तए' स च पार्श्वस्थचर्यारतो भूत्वा भूयोऽपि भावपरावृत्या इच्छेत् द्वितीयमपि वारं गणं स्वगणं यस्मिन् गणे पूर्वमासीत् तमेव गणं गच्छमुपसंपद्य सम्प्राप्य विहत्तुं स्थातुम् इच्छेत् तदा 'अस्थि या इत्थ से से' अस्ति चेदत्र शेषं चारित्रांशो विद्यमानस्तदा गच्छागतं तं 'पुणो' पुनरागतत्वात् 'आलोएज्जा' तस्याऽपराधजातस्याऽऽलोचनामाचार्यादिः कारयेत् 'पुणो पडिक्कमेज्जा' पुनः प्रतिक्रामेत् पुनरकरणतया पापात् प्रत्यावर्त्तयेत् 'पुणो छेयस्स परिहारस्स वा उवट्ठावएज्जा' ततः पुनः छेदस्य वा परिहारस्य वा उपस्थापयेत् छेदस्य दीक्षाछेदस्य स्वीकाराय परिहारतपसो वा करणाय प्रवर्तयेदिति भावः । यदि तस्य चारित्रं सर्वथा नष्टं भवेत्तदा पुनः पञ्चमहाव्रतेषु उपस्थापयेदिति विवेकः ॥सू० २८॥ इदं सूत्रं पार्श्वस्थविषयकम् । एवं यथाछन्दे, कुशीले, अवसन्ने, संसक्ते चाऽपि चत्वारि सूत्राणि वक्तव्यानि 'जे भिक्खू० अहाछंद० इत्यादि 'जेभिखू० संसत्त०' पर्यन्तम् ॥सू०२९-३२ सूत्रम्-भिक्खू यगणाओ अवक्कम्म जहाछंदविहारपडिम उवसंपज्जित्ता विहरेजा से य इच्छेजा दोच्चपि तमेव गणं उवसंपज्जित्ताणं विहरित्तए, अस्थि या इत्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उवद्वावेज्जा ॥ सू० २९ ॥ भिक्खू य गणाओ अवकम्म कुसीलविहारपडिमं उपसंपज्जित्ता णं विहरेज्जा से य इच्छेज्जा दोच्चंपि तमेव गणं उपसंपज्जित्ता णं विहरित्तए अस्थि या इत्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वापरिहारस्स वा उवहावेज्जा॥सू०३० ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy