________________
व्यवहारसूत्रे प्रतिक्रमणं ततः कथमत्र पुनः शब्दोपपत्तिः ? अत्रोच्यते-भिक्षुस्वभावस्य ऋजुत्वेन स यत्रैव स्थानेऽतिचारप्रसङ्गः समापतितस्तत्रैव स इत्थम् अचिन्तयत् यत् समापतितमतिचारजातं तदत्रैव आलोचयामि प्रतिक्रमामि पश्चाद् गुरुसमक्षमालोचनां प्रतिक्रमणं च करिष्यामीति । एवं चिन्तयित्वा पूर्वगच्छे आगच्छति ततो घटते एवात्र पुनः शब्दोपादानमिति । अथवा गच्छाद् गतस्य पुनस्तत्रागमनापेक्षया पुनः शब्दोपादानम् तथाहि-'पुणो आलोएज्जा' पुनरिति गत्वा पुनः प्रत्यावर्तितस्य आलोचनां कारयेत् युक्तमेव पुनःशब्दोपादानम् नहि तीर्थकरा एकमक्षरमपि व्यर्थ भाषन्ते इति । एवं पुनरपि स्वगच्छे प्रतिनिवृत्तं साधुं गच्छस्था मुनयो न निन्देयुः न गर्हेरन् यथा - 'समाप्तिं नीताऽनेन प्रतिमा, सांप्रतं पुनरागतो वर्त्तते' इत्यादिवाक्यैः प्रतिनिवृत्तस्य निन्दा गीं न कुर्युः, तस्य शुभपरिणामवत्त्वेन शोभनाध्यवसायवत्त्वेन च प्रतिनिवृत्तत्वादिति ॥ सू० २५ ॥
पूर्व भिक्षुसूत्रमुक्त्वा सम्प्रति गणावच्छेदकाऽऽचार्योपाध्याययोः सूत्रद्वयमाह-'गणावच्छेयए य' इत्यादि 'आयरिय उवज्झाए' इत्यादि ।
सूत्रम्-मणावच्छेयएय गणाओ अक्वाम्म एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरेज्जा, से इच्छेज्जा दोच्चंपि तमेव मणं उक्संपज्जित्ताणं विहरित्तए पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उवष्ठावेज्जा ॥ सू० २६॥
आयरियअवज्झाए य गणाओ अवक्कम्म एगल्लविहारपडिमं उपसंपज्जिता गं विहरेज्जा से इच्छेज्जा दोच्चंपि तमेव गणं उपसंपज्जित्ता ण विहरित्तए पुणो आलोएज्जा पुणो पडिकमेज्जा पुणो छेयपरिहारस्स उवमाएज्जा ॥ सू० २७ ॥
छाया-गणापच्छेदकाच गणादवक्रम्य एकाकिविहारप्रतिमामुपसंपच खलु विहरेत, स इच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु चिहत्तम् पुनरालोचयेत् पुनः प्रतिकामेत् पुनः छेदपरिहारस्य उपस्थापयेत् ॥ सू० २६ ॥
आचार्योपाध्यायश्च गणादवक्रम्य एकाकिविहारप्रतिमामुपसंपद्य खलु विहरेत् स इच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहत्तुं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनः छेदपरिहारस्य उपस्थापयेत् ॥ सू० २७ ॥
भाष्यम-गणाक्च्छे यए य' इति । 'आयरियउवज्झाए य' इति च । एतत् सूत्रद्वयमपि भिक्षुसूत्रवदेव व्याख्येयं, विशेषः केवलमेतावानेव यत् गणावच्छेदक एकाकिविहारप्रतिमाप्रतिपत्तिकाले गणावच्छेदकत्वं स्वपदं मुक्वा प्रतिमा प्रतिपद्यते, आचार्योऽन्यं गणधरं स्वपदे स्थापयित्वा प्रतिमा प्रतिपद्यते इति । शेषं सर्व सूत्रद्वयं भिक्षुसूत्रवदेव ज्ञातव्यम् । अथवा भिक्षुसूत्रादिदं नानास्वं यत् गणावच्छेदक आचार्यश्च प्रतिमाप्रतिपत्तिकाले पूर्वगृहीतमुपछि निक्षिप्यान्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते इति, शेषं पूर्ववदेव । सू० २६, २७ ॥