________________
भाष्यम् उ. १ सू० २५-२७
एकाकिविहारिणः पुनर्गच्छागमनविधिः ३७ सूत्रम् - जे भिक्खू य गणाओ अवकम्म एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरेज्जा, से य इच्छेज्जा दोच्चंपि तमेव गणं उपसंपज्जित्ता णं विहरित्तए अस्थिया इत्थ सेसे पुणो आलोएज्जा पुणो पडिकमज्जा पुणो छेयपरिहारस्स उवहाएज्जा ॥ सू० २५॥
छाया-यो भिक्षुश्च गणादवक्रम्य एकाकिविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेवगणमुपसंपद्य खलु विहर्तुम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिकामयेत् पुनश्छेद परिहारस्य उपस्थापयेत् ॥ सू० २५ ॥
भाग्यम-"जे भिक्खू" इति 'जे भिक्खू' यः कश्चिद् भिक्षुः जघन्यतो दशपूर्वधरः उत्कृष्टतश्चतुर्दशपूर्वधारी,तथा श्रद्धा १, सत्यं २, मेधा ३, बहुश्रुतत्त्वम् ४, शक्तिमत्त्वम् ५, अल्पाधिकरणत्वम् ६, धृतिमत्त्वम् ७, वीर्यसम्पन्नत्वं ८ चेति, इत्येतावदष्टगुणधारको मुनिर्वा 'गणाओ प्रवक्कम्म' गणात् स्वकीयगच्छात् अवक्रम्य विनिर्गत्य पृथग्भूत्वा 'एगल्लविहारपडिम' एकाकिविहारप्रतिमाम् एकाकिविहारयोग्यां एकाकि भूत्वा विहरणरूप मभिग्रहविशेषम् ‘उवसंपज्जित्ता गं' उपसंपद्य स्वीकृत्य 'विहरेज्जा' विहरेत् ‘से य' स चैकाकिविहारी 'इछेज्जा' स्वकीयं गणं स्मरन् इ छेत् , किमिच्छेदित्याह-'दोच्चंपि तमेव गणं उवसंपज्जित्ताणं विरहित्तए' द्वितीयमपि वारम् एकवारं पूर्व प्रव्रज्याप्रत्तिपत्तिकाले आश्रितवान् इदानीं तु द्वितीयं वारम् अत एक कथितं द्वितीयमपि वारं तमेव आत्मीयं पूर्वत्यक्तं गणमेव उपसंपद्य स्वीकृत्य पुनर्विहतम् तदा कि कुर्यात् पूर्वगच्छस्थित आचार्यादिः । तत्राह-'अत्थि या इत्थ सेसे' अस्ति चात्र तस्मिन् सुनौ शेषम् अवशिष्टं चारित्रं भवेत् तदा 'पुणो आलोएज्जा' पुनरालोचयेत् आचार्यादिः पुनस्तमेकाकिविहारप्रतिमाजातमतीचारमालोचयेत् पापस्यालोचनां कारयेत् , तस्य स्वकीयं पापं प्रकटं कारयेदित्यर्थः । आलोचनानन्तरं 'पुणो पडिकमेज्जा' पुनः प्रतिक्रामयेत् पुनः पुनरकरणतया तस्मात् स्थानात् प्रत्यावर्तयेत् पुनरपि किमित्याह-'पुगो छेयपरिहारस्स उवद्याएज्जा' पुनश्छेदपरिहारस्योपस्थापयत्, छेदश्च परिहारश्चेति समाहारद्वन्दे छेदपरिहारं तस्य, तत्र छेदस्य दीक्षाछे । कृत्वा तस्य परिहारस्य परिहारतपसो वा यथायोग्यं करणाय पुनरुपस्थापयेत दीक्षाछेदं परिहारतपो वा आरोपयेदितिभावः । पूर्वं यदुक्तम्-'अत्थि या इत्थ सेसे' इति किश्चिद्वशिष्टे चारित्रभागेऽयं विधिरुक्तः, यदि सर्वमपि चारित्रं नष्टं जातं नावशिष्ट किञ्चित्तदा सर्व पूर्वपर्यायं छित्त्वा पुनर्नुतने चारित्रे तमुपस्थापयेदिति निष्कर्ष इति । अत्र कोऽपि शङ्कतेयद्यपि प्रतिमा पतिपन्नस्य चारित्रविराधनायाः संभवः, न तु चारित्रं सर्वमपगतं किन्त शेषमवतिष्ठते, त्यवहारनयमतेन देशभङ्गेन सर्वभङ्गाभावात्, ततश्चारित्रस्य शेषे सति 'पुनरालोचयेत् पुनः प्रतिक्राम्येत्' इत्यत्र पुनः शब्दो न द्वितीयवारापेक्षः आलोचनाप्रतिक्रमणयोः पूर्वमकरणात् , एकवारं कृतं कार्य द्वितीयवारं क्रियते तत्र पुनःशब्दः सापेक्षः, यथा च लोके वक्ति–'कृतमिदमेकवारमिदानी पुनः क्रियते' इति, अत्र तु प्रथममेवाऽऽलोचनां प्रथममेव च