________________
व्यवहारसूत्रे भदन्त ! यदेतद्देशतोऽवशिष्टं तपो मार्ग एव सम्पूर्ण करिष्यामीति सोऽवशिष्टं देशतः तपो वहमान एव गच्छति । अथासमर्थश्चेत्तदाऽऽह-गमिष्यामि त्ववश्यमेवेति विचिन्तयन् तं तपोदेशं निक्षिप्य गच्छति । अथवा तस्य यदवशिष्टं स्तोकमव्यूढं तिष्ठति तत्तस्य महत्कार्यार्थ प्रस्थितस्याचार्याः कार्यस्य महत्त्वमाश्रित्य प्रसादबुद्धयाऽवशिष्टं तत्तपो समस्तमपि मोचयन्ति यथा महति वैयावृत्त्यादिप्रयोजने त्वं प्रस्थानं करोषीति मोचितं प्रसादतस्तव शेषमेतत्तप इति । एवं देशतो वहननिक्षेपण-त्यागाः प्रदर्शिता इति । अथ सर्वतस्ते प्रदर्यन्ते-कस्यापि साधोः परिहारतपो दत्तं वोढुमपि स प्रवृत्तः, अत्रान्तरे च वैयावृत्याद्यर्थ गमनप्रयोजनमुपस्थितं तदाऽऽचार्या ब्रुवतेहे देवानुप्रिय ! समुत्पन्नमिदमावश्यकं गमनप्रयोजनमतो निक्षिप परिहारतप इति । यदि स साधुः समर्थस्तदा पाह-भदन्त ! गच्छन्नपि समर्थोऽहं तत्तपो वोढुम् , मार्गस्य दूरत्वाच्च मार्ग एव तत्तपः समस्तं पूर्ण करिष्यामि, तथाहि-सर्व जघन्यं परिहारतपो मासिकं भवति तदापन्नोऽसौ, गन्तव्यं चानन्दपुरात् मथुरायां ततस्तत्तपो मार्ग एव समाप्तिमुपयातीति स तपो वहमान एव गच्छति । यदि सोऽसमर्थः तदा तत्तपो निक्षिपति । अथवा महत्प्रयोजनमुपस्थितं गरीयांश्चाध्या, एतस्य प्रयोजनस्यायमेव कर्ता गुणगरीयत्वात् ततः सम्यक् प्रवचनभक्तोऽयं दुष्करदुष्करकारी किन्तु सामर्थ्यविहीन इति विचिन्त्याचार्याः सर्वमपि तस्य तनपः प्रसादतो मोचयन्त्यपि । एवं सर्वतो वहननिक्षेपणत्यागा वेदितव्या इति । एवमेव ततः प्रतिनिवर्ति तस्य देशतः सर्वतो वा वहनत्यागौ वेदितव्यो, तथाहि-यदि गच्छता देशो निक्षिप्तस्ततः स तपसो देश: प्रतिनिवर्त्तितेन क्रियते । अथ समस्तं निक्षिप्तं तदा तत्सर्वमपि प्रतिनिवर्तितेन क्रियते । अथवा अहो दुष्करमिदं चतुर्विधसंघजिनप्रवचनप्रभावनासम्बन्धिकार्यमनेन संपादितमिति परितुष्टा आचार्या निक्षिप्तं तत्तपसो देशं वा सर्व वा मोचयन्ति । एवं प्रतिनिवर्तितस्य देशतः सर्वतो वहनत्यागौ भवत इति । अत्राऽऽशङ्का जायते यत् आचार्यादिप्रसादतो देशस्य सर्वस्य वा त्यागः कृतः किन्तु न खलु प्रसादतः पापनिवृत्तिः समुपजायते ? इत्यत्राह-यथा अनुद्घातिके परिहारतपःप्राप्तौ वैयावृत्त्यकराणां तस्य त्यागो भवति 'अणुग्याइयं उग्याइयं किज्जई' इति वचनात् संघादिवैयावृत्त्ये प्रवृत्तानामुद्घातिकमेव परिहारतपो भवति न तु अनुदातिकं वैयावृत्त्यस्य परमनिर्जराहेतुकत्वादिति ॥ सू० २४ ॥
अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध इति चेदत्रोच्यते-पूर्वसूत्रे पारिहारिकस्य वैयावृ. त्यादिनिमित्तनिर्गमनाधिकारः प्रोक्तः, इहापि निर्गमनमेव कथयिष्यते । अथवा पूर्वसूत्रे तपसोऽधिकारोऽनुवर्तते, अत्रापि सूत्रे स एव तपसोऽधिकारो वर्णयिष्यते । अनेन सम्बन्धेनाऽऽयातमिदं सूत्रमाह 'जे भिक्खू' इत्यादि ।