________________
भाष्यम् उ० १ सू० ३४
अवधावितस्य पुनरागमने विधिः ४३ स तत्र यदि कस्यापि नवदीक्षितस्य छेदोपस्थापनीयसम्बधी कालः समाप्तो भवेत्तदा तल्लिङ्गस्थितस्यैव निर्ग्रन्था(नियंठा)पेक्षया, तथा स्थानाङ्गकथितचतुर्भङ्गयपेक्षया च तं नवदीक्षितं चारित्रे स्थापयितुं कल्पते इति । अत्रदं तात्पर्यम्-पार्श्वस्थादिसंसक्तपर्यन्तानि पञ्च सूत्राणि भावलिङ्गपरित्यागविषयकाणि ततस्तत्र प्रायश्चित्तदानमभिहितम्, इई परपाषण्डप्रतिमासूत्र तु द्रव्यलिङ्गपरित्यागविषयकमतोऽत्रालोचनां मुक्त्वा नान्यत् प्रायश्चितं प्रतिपादितम् ॥ सू०३३ ॥
पूर्व भावलिङ्गद्रव्यलिङ्गपरित्यागे विधिः प्रोक्तः, साम्प्रतं द्रव्यभावोभयलिङ्गं परित्यज्य गतस्य तत्रैव गणे पुनरागन्तुमिच्छतो विधिमाह-'भिक्खू य' इत्यादि ।
सूत्रम्-भिक्खू य गणाओ अवकम्म ओहावेज्जा, से य इच्छेज्जा दोच्चपि तमेव गणं उपसंपज्जित्ता णं विहरित्तए, नस्थि णं तस्स तप्पत्तिए केइ छेए वा परिहारे वा नन्नत्थ एगाए सेहोवट्ठावणियाए ॥ सू० ३४॥
छाया-भिक्षुश्व गणादवक्रम्याऽवधावेत् स चेच्छेत् द्वितीयपि तमेव गणमुपसंपद्य खलु विहतं नास्ति खलु तस्य तत्प्रत्ययिकः कश्चित् छेदो वा परिहारो वा नान्यत्र एकया शैक्षोपस्थापनिकया ॥ सू०३४ ॥
भाष्यम् --'भिक्खू य' इति । 'भिक्खू य' यः कश्चिद् भिक्षुः 'गणाओ अवकम्म' गणादपक्रम्य गणात् स्वकीयगच्छात् अपक्रम्य निर्गत्य 'ओहावेज्जा' अवधावेत् पञ्चमहाव्रतपर्यायात् पराङ्मुखो भूत्वा गृहस्थपर्यायं प्रति गच्छेदित्यर्थः 'से य इच्छेज्जा' स चेच्छेत् यः गृहस्थपर्यायमाश्रितः स पुनरपि साधूनां सदुपदेशात् भाग्यवशाच्च भावपरावर्तनेन इच्छेत् 'दोच्वंपि तमेव गर्ग' द्वितीयमपि वारं तमेव गणम् 'उपसपज्जित्ता णं विहरित्तए' उपसंपद्य स्वीकृत्य विहत्तुं पुनः तत्रैव गणेदीक्षां गृहीत्वा संयमयात्रां निर्वाहयितुमिच्छेत्, पुनरागमनप्रश्ने कोदृशं प्रायश्चित्तं दातव्यम् ! न वा दातव्यम् ! इत्याह-'णस्थि णं तस्स' नास्ति खल तस्य 'तप्पत्तइए' तत्प्रत्ययिकः संयमत्यागनिमित्तकः 'केइ छेए वा परिहारे वा' कश्चित् छेदो वा परिहारो वा, न भवति खलु तस्य कश्चित् छेदनामकं परिहारनामकं वा प्रायश्चितं, तस्मिन् छेदपरिहारप्रायश्चित्तस्य कारणाभावात् । तहिं किं कर्त्तव्यम् ? इत्याह-'णण्णत्थ एगाए सेहोवद्यावणियाए' नान्यत्र एकया शैक्षोपस्थापनिकया तस्य शैक्षोपस्थापनिकां विहाय नान्यत् किमपि प्रायश्चित्तं दात्तव्यं स्यात् , मूलत एव तस्मै पुनर्नुतनामेव दीक्षां दद्यात् , तस्य सर्वथा गृहस्थपर्यायस्वीकृतत्वादिति ॥ सू० ३४ ॥
पूर्व पार्श्वस्थादिप्रतिमाविषये आलोचनाविधिः प्रोक्तः, साम्प्रतं भिक्षुणा अकृत्यस्थाने सेविते तस्यालोचनादिकं कस्य पार्श्वे कर्तव्यम् ? इति तद्विधिमाह-'भिक्खू य' इत्यादि ।