SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भाष्यम् सू० २१ पारिहारिकापारिहारिकानामेकत्रवासविधिः ३१ एकत अभिनिषद्यां वा अभिनैपेधिकी वा चेतयितुम्, स्थविराश्च खलु तान् वितरेयुः एवं खलु तेषां कल्पते एकतः अभिनिषद्यां वा अभिनषेधिकी वा चेतयितुम् , स्थविराः खलु तेषां नो वितरेयुः एवं खलु तेषां नो कल्पते एकतः अभिनिषद्यां बा अभिनषेधिकी वा चेतयितुम् , यः खलु स्थविरैरवितीर्णोऽभिनिषद्यां अभिनषेधिकी वा चेतयते तस्य स्वान्त. रात् छेदो वा परिहारो वा ॥ सू० २१ ॥ भाष्यम् -'बहवो' इति 'बहवो परिहारिया' बहवोऽनेके पारिहारिका वा, परिहारः तपोविशेषः, तेन तपोविशेष्ण चरन्ति ये ते पारिहारिकाः, 'बहवे अपरिहारिया वा बहवोऽनेके अपरिहारिका पारिहारिकव्यतिरिक्तास्ते 'इच्छेज्जा' परस्परमिच्छेयुः इच्छां कुर्युः । किमिच्छेयुस्तत्राह-'एगयओ' एकतः एकस्थ ने तत्रैव वसतौ वसत्यन्तरे वा 'अभिनिसेज्जं वा' अभिनिषद्याम् अभि-रात्रिमभिव्याप्य स्वाध्यायनिमि तमागताः सन्तो निषीदन्ति तिष्ठन्ति यस्यां सा तामभिनिषद्यां वसतिमित्यर्थः, 'अभिनिसीहियं का' अभिनषेधिकी वा, निषेधः स्वाध्यायव्यतिरेकेण सकलव्यापारप्रतिषेधः, तेन निषेधेन निर्वृ ता नैषेधिकी केवलस्वाध्यायस्थानम् "मुत्तत्थं निसीहिया" इति वचनात् अत्र नषेधिकी सूत्रार्थप्रायोग्या ज्ञातव्या, न तु कालकारणप्रायोग्या, अभि-आभिमुख्येन सूत्रार्थप्रायोग्यतया नेपेधिकी अभिनैपेथिकी तामभिनैषेधिकीं वा । अयम थेः- तत्र दिवसे स्वाध्यायं प्रवचनं कृत्वा रात्रौ वसतिमेव साधवः प्राप्नुवंति सा अभिनषेधिकी, अभिनषेधिक्यामेव स्वाध्यायं कृत्वा रजनीमुषित्वा प्रातः काले वसतिमुपागच्छन्ति सा अभिनिषद्या, तामभिनिषद्याम्, अभिनैषेधिकीं स्वाध्यायस्थानविशेषं वा 'चेइत्तए' चेतयितुं कर्तुम्, यदि अनेके पारिहारिका अपरिहारिकाश्च एकस्मिन् स्थाने अभिनिषद्याम् अभिनषेधिकीं वा कत्तु वस्तुमिच्छेयुः तदा ‘णो णं कप्पइ थेरे अणापुच्छित्ता एगयओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइत्तए' नो खलु कल्पते स्थविराननापृच्छय एकतः एकस्थाने अभिनिषद्यां वा अभिनषेधिकी वा चेतयितुं कर्तुम् । तत्र नो नैव कथमपि एतेषां पारिहारिकाणामपरिहारिकाणां च कल्पते स्थविरान् आचार्यप्रभृतीन् अनापृच्छय तेषामाचार्यादीनामाज्ञामन्तरेण एकस्थाने स्ववसतौ अभिनिषद्याम् अभिनषेधिकीं वा कत्तु नो कल्पते इति भावः । साधूनामुच्छ्वासनिःश्वासनिमेषादि यतिरेकेण शेषाणां समस्तानामपि व्यापाराणां गुरुपृच्छाधीनत्वात् । तदेवं प्रतिषेध वयवं निरूप्य विधिं निरूपयितुमाह--'कप्पई ण्हं थेरे आपुच्छित्ता ते एगयओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइत्तए, कल्पते खलु स्थविरानापृच्छ्य तेषाम् एकतः अभिनिषद्यां ना अभिनषेधिकी वा चेतयितुम् आचार्याज्ञया तेषामेकस्थानेऽभिनिषद्यादि कत्तु कल्पते इति । अथ यदि स्थविरा आपृष्टाः सन्त आज्ञां वितरेयुः तदा किं कुर्युः ? इत्याशङ्कायामाह-'थेरा य ण्हं से वियरिज्जा एवं हं कप्पइ अभिनिसेज्ज वा अभिनिसीहियं वा चेइ
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy