SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३० व्यवहारसूत्रे कुञ्चिते पश्चात् आलोचनाकालेऽपि प्रतिकुञ्चितं सकपटमेवालोचयतीति ४। 'पलिउंचिए पलिउंचियं आलोएमाणस्स' प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः 'सव्वमेयं सकयं साहणिय' सर्वं निरवशेषमालो चयतः सर्वमेतद्यदापन्नमपराधजातं प्रतिकुञ्चनानिष्पन्नं च तत्सर्वं स्वकृतं स्वयमपराधकारिणा संपादितं संहृत्य एकत्र मेलयित्वा यदि संचितं प्रायश्चित्तस्थानमापन्नः, ततस्तदेव पाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः पाण्मासिकातिरिक्तं तत्सर्व परित्यजेत् । अथ यदि मासादिकं प्रायश्चित्तमापन्नः ततस्तदेव मासादिकं प्रायश्चित्त दातव्यम् । 'जे एयाए पवगाए पट्ठविए' यः साधुः साध्वी वा एतया अनन्तरपूर्वकथितया प्रस्थापनया पूर्वकृतापराधस्य विषये स्थापना: प्रायश्चित्तदानप्रस्थापना तया प्रस्थापितः प्रायश्चित्त करणे प्रवर्तितः सः 'निविसमाणे निर्विशमानः प्रायश्चित्तं कुर्वाणः यत्प्रमादतः विषयकषायादिभिर्वा पुनः 'पडिसेवई' प्रतिसेवते ततः तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं प्रतिसेवते 'सेवि कसिणे' तदपि कृत्स्नम् अनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा 'तत्थेव' तत्रैव पूर्वप्रस्थापितप्रायश्चिते एव 'आरुहियव्वे सिया' आरोहयितव्यमारोपणीयं स्यात् नत्वन्यस्मिन् प्रायश्चित्ते आरोपणीयमिति ॥ सू० २०॥ इह पूर्वसूत्रे परिहारतपः कथितं, परिहारश्च परिहर्तव्यापेक्षः प्रतिषेध्यानान्तरीयकत्वात् परिहारस्य । तथा परिहारक्रियाग्रहणेन पारिहारिकोऽपि आक्षिप्यते, कर्तारं विना क्रियाया अनुपपत्तेः । तत्र ये परिहारेण परिहारनामकेन तपसा चरन्ति, ते पारिहारिकाः । एतद्विपरीता ये ते अपारिहारिकाः । न पारिहारिकाः अपारिहारिकैविना भवितुमर्हन्ति पारिहारिकस्यापारिहारिकानान्तरीयकत्वात्, एवमपारिहारिका अपि पारिहारिकैविना न भवन्ति अपारिहारिकाणामपि पारिहारिकानान्तरीयकत्वात्, अतोऽत्र पारिहारिकाऽपारिहारिकविषयं सूत्रमाह-'बहवे' इत्यादि । सूत्रम्-बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ अभिनिसेज्ज वा अभिनिसीहियं वा चेइत्तए नो ण्हं से कप्पइ थेरे अणापुच्छित्ता एगयओ अभिनिसेज्ज वा अभिनिसीहियं वा चेइत्तए, कप्पइ ण्हं से थेरे आपुच्छित्ता एगयो अभिनिसेज वा अभिनिसीहियं वा चेइत्तए, थेरा य ण्हं से वियरेज्जा एवं ण्हं कप्पइ एगयओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइत्तए, थेरा य हं से नो वियरेज्जा एवं हं नो कप्पइ एगयओ अभिनिसेज्ज वा अभिनिसीहियं वा चेइत्तए । जो ण्हं थेरेहिं अविइण्णे अभिनिसेज्जं वा अभिनिसीहियं वा चेएइ से संतरा छेए वा परिहारे वा ॥ सू० २१॥ छाया-बहवः पारिहारिकाः बहवोऽपरिहारिका इच्छेयुः एकतः अभिनिषद्या वा अभिनषेधिकों वा चेतयितुम्, नो खलु तेषां कल्पते स्थविरान् अनापृच्छय एकतो अभिनिषद्यां वा अभिनषेधिकी वा चेतयितुम्, कल्पते खलु तेषां स्थविरान् आपृच्छय
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy