SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २३ - व्यवहारसूत्रे मासिकं प्रायश्चित्तमापन्नस्ततस्तदेव मासादिकं प्रायश्चित्तं दातव्यमिति शेषः । 'जे' यः साधुः साध्वी वा यदि 'एयाए' एतया अनन्तरपूर्वकथितया पाण्मासिक्या मासिक्यादिकया वा 'पट्टवणाए' प्रस्थापनया प्राक् पूर्वकाले कृतस्य स्वयं संपादितस्याऽपराधस्य विषये या स्थापना प्रायश्चित्तदानप्रस्थापना, तया प्रस्थापनया 'पट्टविए' प्रस्थापितः प्रायश्चित्तकरणे प्रवर्तितः सः 'निव्विसमाणे' निर्विशमानः ततः प्रायश्चित्तवहनं कृत्वा निस्सरन् अन्तिमं प्रायश्चित्ततपः कुर्वन्नित्यर्थः, यत्पुनः प्रमादतो विषयकषायादिभिर्वा 'पडिसेवेइ' प्रतिसेवते पुनः पापमाचरति ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं सेवते 'सेवि' तदपि 'कसिणं' कृत्स्नं सकलम् अनुग्रहकृत्स्नेन निरनुग्रह कृत्स्नेन वा सर्वमपि 'तत्थेव' तत्रैव पूर्वप्रस्थापिते एव प्रायश्चित्ते 'आरु हियव्वे सिया' आरोहयितव्यमारोपणीयम् , तदपि सर्व संमेल्य पूर्वप्रस्थापितप्रायश्चित्त वर्द्धनीयं स्यादित्यर्थः ॥ सू० १७ ॥ सूत्रम्-जे भिक्ख चाउम्मासियं वा, साइरेगचाउम्मासियं वा, पंचमासियं वा साइरेगपंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलो एज्जा, पलिउंचिय आलोएमाणस्स ठवणिज्ज ठावइत्ता करणिज्ज वेयावडियं, ठाविएवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया पुव्वं पडिसेवियं पुव्वं आलोइयं १, पुव्वं पडिसेवियं पच्छा आलोइयं २, पच्छा पडि सेवियं पुव्वं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४।अपलिउंचिए अपलिउंचियं १, अपलिउंचिए पलिउचियं २, पलिउँचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४ । पलिउंचिए पलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पढवणाए पट्टविए निव्विसमाणे पडसेवइ सेवि कसिणे तत्थेव आरुहियव्वे सिया ॥ २०१८॥ छाया-यो भिक्षुश्चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा, पाञ्चमासिकं वा, सातिरेकपाश्चमासिकं वा, एतेषां परिहारस्थानानाम् अन्यतरत् परिहारस्थानं प्रतिसेव्यालोचयेत्, प्रतिकुञ्च्यालोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यम्, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैवारोपयितव्यं स्यात् । पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात् प्रतिसेवितं पूर्वमालोचितम् ३, पश्चात् प्रतिसेवितं पश्चादालोचितम् ४ । अप्रतिकुंचिते अप्रतिकुञ्चितम् १, अप्रतिकुञ्चिते प्रतिकुञ्चितम् २, प्रतिकुञ्चितेअप्रतिकुञ्चितम् ३, प्रतिकुञ्चिते प्रतिकुञ्चितम् । प्रतिकुञ्चिते प्रतिकुंचितम् आलोचयतः सर्वमेतत् स्वकृतं संहृत्य य पतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥सू० १८॥ भाष्यम्-'जे भिक्खू' इति 'जे भिक्खू' यः कश्चिद् भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा 'साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा 'पंचमासियं वा' पाञ्चमासिकं वा 'साइरेग
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy