________________
भाष्यम् उ० १ सू०१७ प्रतिकुश्चनाऽप्रतिकुश्चनायां प्रायश्चित्तदानविधिः २१ मित्यर्थः पश्चात् पश्चानुपूर्व्या आलोचितं प्रतिसेवनानुक्रमेणैवालोचितम् । अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽप्यालोचितमिति चतुर्थों भङ्गः ४।
अत्र प्रथमचतुर्थभङ्गौ अप्रतिकुञ्चनायाम् , द्वितीय-तृतीयभङ्गौ प्रतिकुञ्चनायाम् , इति प्रतिकुञ्चनाऽप्रतिकुञ्चनाभ्यामियं चतुर्भङ्गी भवति तामेवाह–'अपलिउंचिए अपलि चियं' इत्यादि ।
_ 'अपलिउंचिए अपलिउंचियं' अप्रतिकुञ्चितेऽप्रतिकुञ्चितम् , यदा खलु अपराधान् प्राप्तः आलोचनाभिमुखस्तदा कश्चिदेवं संकल्पितवान् यथा-ये केचन मयि अपराधास्ते सर्वेऽपि मया आलोचनीयाः, एवं पूर्वसंकल्पकाले अप्रतिकुञ्चिते आलोचनासमये अप्रतिकुञ्चितमेव आलोचयतीति प्रथमो भङ्गः १।
द्वितीयभङ्गमाह-'अपलिउंचिए पलिउंचियं' अप्रतिकुञ्चिते प्रतिकुञ्चितम्, यथापूर्व संकल्पकाले अप्रतिकुञ्चितं निष्कपटभावेनोपस्थितः, आलोचनाकाले तु प्रतिकुञ्चितं सकपटमालोचयति, इति द्वितोयो भङ्गः २।
तृतीयभङ्गमाह–'पलिउंचिए अपलिउंचियं' प्रतिकुंचिते अप्रतिकुश्चितं, पूर्व संकल्पकाले केनापि प्रतिकुञ्चितम् यथा-न मया सर्वे अपराधा आलोचनीयाः, एवं पूर्व संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायां भावपरावृत्तेः सर्वमपि अप्रतिकुञ्चितं कपटरहितमालोचयतीतितृतीयो भङ्गः३।
. अथ चतुर्थभङ्गमाह- पलिठंचिए पलिउंचियं प्रतिकुञ्चिते प्रतिकुंचितम् । पूर्व. संकल्पकाले केनापि प्रतिसेवकेन प्रतिकुञ्चितम् यथा-मया न सर्वेऽपराधाः आलोचनीया ततः एवं संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायामपि प्रतिकुञ्चितं सकपटमेवालोचयतीति चतुर्थों भङ्गः ४ ।
तत्र-'अपलिउंचिए अपलिउंचियं । आलोएमाणस्स' अप्रतिकुञ्चिते अप्रतिकुञ्चितम् आलोचयतः । तत्राऽप्रतिकुञ्चितमालोचयतो वीप्सा साकल्येन व्याप्ता भवंति, ततश्चाऽयमर्थः-निरवशेषमालोचयतः 'सव्वमेयं' सर्वमेतद् यदापन्नमपराधजातम् , अथवा कथमपि प्रतिकुंचना कृता स्यात् ततः प्रतिकुंचनानिष्पन्नं, यच्च गुरुणा सह आलोचनाकाले समासनोच्चासननिष्पन्नं, या चाऽऽलोचनाकाले असमाचारी, तन्निष्पन्नं च सकलमेतत् सकयं' स्वकृतं स्वयमात्मना अपराधकारिणा कृतम् 'साहणिय' संहृत्य एकत्र मेलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापन्नस्ततः पाण्मासिकं प्रायश्चित्तं दद्यात् । यत् पुनः पाण्मासिका. तिरिक्त तत्सर्वं शोषयेत् परित्यजेत् । अथ मासादिकं द्वैमासिकं त्रैमासिकं चातुर्मासिकं पाश्च