________________
व्यवहारस्त्रे स्थापनीयं स्थापयित्वा परिहारतपसो दानसमये आचार्यः पारिहारिकाय एतादृशं नियमं श्रावयति-यः खलु प्रतिसेवकः परिहारतपःप्रायश्चित्तस्थान प्राप्तः तस्य परिहारनामकतपोदानाय सर्वेषां साधु-साध्वीजनानां परिज्ञानाय सकलगच्छसमक्षं निरुपसर्गप्रत्ययं निरुपसर्गनिमित्तं कायोत्सर्गः पूर्व क्रियते । कायोत्सर्गकरणानंतरं आचार्यः प्रतिसेवकं प्रति वक्ति-अहं ते कल्पस्थितः, अयं साधुरनुपारिहारिकः ततः स्थापनीयं स्थापयित्वेति यत्नेन सहाचरणीयम् तत्, स्थाप्यते इति स्थापनीयम् अग्रे वश्यमाणमालापनपरिवर्तनादि, तत् सकलगच्छसमक्षं स्थापयित्वा कल्पस्थितेनाऽनुपारिहारिकेण च यथायोगमनुशिष्टयपालम्भोपग्रहरूपं वक्ष्यमाणं वैयावृत्यं करणीयम् , 'ठाविएवि पडिसेवित्ता' स्थापितेऽपि प्रतिसेव्य ताभ्यां क्रियमाणेऽपि वैयावृत्ये स्थापितेऽपि आलापनादौ कदाचित् किमपि प्रतिसेव्य गुरोः समीपमुपागच्छेत्-यथा भगवन् ! अहममुकं प्रायश्चित्तस्थानमापन्नः । अतः 'सेवि' तदपि 'कसिणं' कृत्स्नं परिहारतपसि क्रियमाणे 'तत्थेव' तथैव परिहारतपसि एव 'आरुहेयन्वे सिया' आरोहयितव्यं-आरोपणीयं स्यात् , स्यादित्यव्ययमत्रावधारणे, तेनारोहयितव्यमेव, केवलं तत्कृत्स्नमारोपयितव्यमिति । अनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा । तस्य प्रतिसेवितस्य गुरुसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेव दर्शयितुमाह
'पुन्वं पडिसेवियं पुव्वं आलोइयं' पूर्व प्रतिसेवितं पूर्वमालोचितम् । अत्र पूर्वमित्यत्र पदैकदेशे पदसमुदायोपचारात् .. पूर्वाऽऽनुपूर्येति ज्ञातव्यम् । ततश्चाऽयमर्थः-गुरुलघुपर्यालोचनया - पूर्वानुपूर्व्या लघुपञ्चकादिक्रमेण यत् प्रतिसेवितं तत् पूर्व पूर्वानुयेति प्रतिसेवनानुक्रमेणाऽऽलोचितमिति प्रथमो भङ्गः १ ।
द्वितीयभङ्गमाह-'पुव्वं पडिसेवियं पञ्छा आलोइयं'. पूर्व . प्रतिसेवितं पश्चादालोचितम् , पूर्व गुरुलघुपर्यालोचनया -पूर्वाऽऽनुपूर्व्या मासलघुकादि प्रतिसेवितम् , तदनन्तरं च अल्पप्रयोजनोत्पत्तौ गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम् । आलोचनासमये तु पश्चात्पश्चानुपूर्व्या आलोचितं, पूर्व लघुपञ्चकाद्यालोचितं, पश्चात् लघुमासादिकमालोचितमिति द्वितीयो भङ्गः २।
तृतीयभङ्गमाह–'पच्छा पडिसेवियं पुव्वं आलोइयं' पश्चात्प्रतिसेवितं पूर्वमालोचितम् । पश्चात् पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितं पश्चाल्लघुपञ्चकादीति आलोचनासमये आनुपूा आलोचितम्, पूर्व लघुपञ्चकाद्यालोचितं पश्चात् गुरुमासादीत्यर्थः इति तृतीयो भङ्गः ३ ।
- अथ चतुर्थभङ्गमाह-'पच्छा पडिसेवियं पच्छा आलोइयं' पश्चात्प्रतिसेवितं पश्चादालचितं, पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितं यथाकथञ्चन प्रतिसेवित