________________
भाष्यम् उ० १ सू० १७ परिहारस्थानसेविनः प्रायश्वितारोपणविधिः १९ न करोति प पम्" इति न्यायात क्षुधाऽपि दोषोत्पत्तौ कारणं जायते ७ । रागद्वेषौ ८ । भयं-मनुष्यदेवतिर्यग्ज यम् ९ । परनिमित्त संजातम्-परोऽन्यो निमित्तं यत्र तत् परनिमित्तं, तेन संजातं समुत्पन्नं, र निमित्तीकृत्य पापं सेवते तत् १० । एतत् पूर्वोक्तं कारणजातं कारणसमूहः कारणदशकमित्यर्थः दोषोत्पादे-दोषोत्पनौ ज्ञातव्यम् ॥१-२॥ एतानि दश कारणानि दोषोत्पत्तौ संभवन्तीति भाव ।। सू० १६ ।।
सूत्रम्-जे भिक्खू चाउम्मासियं वा, साइरेगचाउम्मासियं वा, पंचमासियं वा, साइरेगपंचमासियं वा, एएनि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स ठवणिज्ज ठावइत्ता करणिज्जं वेयावडियं, ठाविएवि पडि सेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया, पुव्वं पडिसेवियं पुन्वं आलोइयं , पुव्यं पडिसेवियं पच्छा आलोइयं २, पच्छा पडिसेवियं पुव्वं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४। अपलिउंचिए अपलिउंचियं १, अपलिउचिए पठिउंचियं २, पलि रंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४ । अपलिउंचिए आलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्टवणाए पट्टविए निविसमाणे पडिसेवइ सेवि कसिणे तत्थेव आरुहियव्वे सिया ॥ सू० १७ ॥
छाया--यो भिक्षुश्च तुर्मासिकं वा, सातिरेकचातुर्मासिकं वा, पाञ्चमासिकं वा, सातिरेकपाश्चमासिकं वा, पतेषां परिहारस्थानानाम् अन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत, अप्रतिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यम्, स्थापितेऽपि प्रतिसेव्य सोऽपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् , पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात् प्रतिसेवितं पूर्वमालोचितम् ३, पश्चात् प्रतिसेवितं पश्चादालोचितम् । अप्रतिकुञ्चिते अप्रतिकुञ्चितम् १, अप्रतिकञ्चिते प्रतिकञ्चितम २. प्रतिकुञ्चिते अप्रतिकुञ्चितम् ३, प्रतिकंचिते प्रतिकरिता अप्रतिकुन्धिते अप्रतिकुञ्चितम् आलोचयतः सर्वमेतत् स्वकृतं संहृत्य यः एतया प्रस्थापनया प्रस्थापितः निर्विशमानः प्रतिसेवते तदपिकृत्स्नं तत्रैवारोहयितव्यं स्यात् ।। सू० १७॥
भाष्य -'जे भिक्खू इति । जे भिक्खू' यः कश्चिद् भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा परिहारस्थानम् । 'साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा, पञ्चदिनाद्यधिकं चातुर्मासिक परिहारस्थानम् , 'पंचमासियं वा' पाश्चमासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा. 'एएसि' एतेषां पञ्चमासिकान्तानाम् 'परिहारहाणाणं' परिहारस्थानानाम् 'अन्नयर' अन्य तरत् , एतेषु यत्कि मपि एकम् 'परिहारद्वाणं पडिसेवित्ता' परिहारस्थानं प्रायश्चितस्थानं प्र तसेव्य 'आलोएज्ना' आलोचयेत् आलोचनां कुर्यात्, तत्र 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा निष्कपटभावेन आलोचयतः 'ठवणिज्ज ठावइत्ता'