________________
व्यवहारसूत्रे
आलोचना
विनयवैयावृत्यादिभिरालोचनाचार्यमाराध्य आलोचनाकरणं आवर्जनाख्यः प्रथम दोषः १। आलोचकोऽनुमानं करोति - यदयं ममाचार्यः अमुकप्रकारकवार्त्तालापादिचेष्टया मृदुदण्डप्रदायी भविष्यतीति विचार्य तथाविधां वार्त्ता कृत्वा आलोचनाकरणं स अनुमानाख्यो द्वितीय आलोचनादोषः २ । आचार्यादिना मया क्रियमाणं यदपराधजातं दृष्टं तस्यैवालोचनां करिष्यामोति मनसि निधाय आलोचनाकरणम् दृष्टाख्यस्तृतीय आलोचनादोषः ३ । बादरस्यैव बृहत एव दोषजातस्यालोचनाकरणं न सूक्ष्मस्येति चतुर्थो बादराख्य आलोचनादोषः ४ । आचार्यों ज्ञास्यति यः सूक्ष्ममालोचयति स बादरं कथं नालोचयिष्यतीति आचार्यस्य विश्वासोत्पादनार्थं सुक्ष्मस्यैव दोषजातस्यालोचनाकरणं सूक्ष्माख्यः पञ्चम आलोचनादोषः ५ । लज्जालुतामुपदर्श्य मन्दशब्देन पापं तथाऽऽलोचयति यथा केवलं स्वयमेव शृणोति न तु आलोचनादायक आचार्यादिः, इत्येवमालोचनाकरणं षष्ठः छन्नाभिघ आलोचनादोषः ६ । महता शब्देन आलोचनाकरणं, तथा आलोचयति यथा अन्येऽपि अगीतार्थादयः शृण्वन्तीत्येष शब्दाकुलाख्यः सप्तम आलोचनादोषः ७ । एकान्तेऽनालोच्य बहुजनमध्ये आलोचनाकरणम्, अथवा एकस्याचार्यस्य समीपे आलोच्य तस्यैवापराधजातस्य अन्यान्याचार्याणां सविधेऽपि पुनः पुनरालोचनाकरण बहुजनाख्योऽष्टम आलोचनादोषः ८ । अव्यक्तस्य अगीतार्थस्य समीपे आलोचनाकरणं नवमोऽव्यक्तास्य आलोचनादोषः ९। यमपराधमालोचयति तस्यैव पुनः सेवनं तत्सेविनामको दशम आलोचनादोषः १० । एतादृशदशदोषधारकः शिष्यः, आलोचना नहीं भवति, नासौ आलोचनायोग्य इति स्थानाङ्गस्य दशमे स्थाने प्रोक्तमिति । दशभ्यः कारणेभ्यो दोषाः समापयन्ते इति दश दोषान् गाथाद्वयेन दर्शयति—
१८
"कंदप्पो १ य माओ २, अन्नाणं ३ तह अकमहभावो ४ य । आवत्ती ५ तह संकड ६, छुहा ७ तहा रागदोसा ८ य ॥ १ ॥ णवमं च भयं यं ९, दसमं पुण परनिमित्तसंजयं १० । एयं कारणजायं, दोसुप्पाए मुणेयव्वं " ||२|| इति ।
छाया - कन्दर्पश्च १ प्रमादः २, अज्ञानं ३ तथा अकस्माद्भावश्च ४ । आपत्तिः ५ तथा संकटः ६ क्षुधा ७ तथा रागद्वेषौ ८ च ॥१॥
नवमं च भयं ९ ज्ञेयम्, दशमं पुनः परनिमित्त संजातम् १० । एतत् कारणजातं, दोषोत्पादे शातव्यम् ||२||
तत्र – कन्दर्पः कामविकारः तद्वशवर्त्ती पापं सेवते १ । प्रमादः - निद्राविकथादिरूपः २ ।
-
अज्ञानं दोषानभिज्ञत्वम् ३ । अकस्माद्भावः अचिन्त्यत्वेन समापतितम् ४ । आपत्तिः - दुष्टराजादि - जन्या ५ । संकटः- मरणादिरूपः ६ । क्षुधा - क्षुधापरीषहस्याऽसहनशीलत्वम्, यथा “बुभुक्षितः कि