________________
भाग्यम् १०१० १६
आलोचनाऽहनिर्हशिष्यगुणदोषप्ररूपणम् १७ ॥ आलोचनाहस्य दश गुणा यथा-जाति१-कुल२-विनय३-ज्ञान४-दर्शन५-चारित्रक्षान्ति७-दमा ८-ऽमायित्व९-पश्चात्तापित्वाख्याः १० । ननु केन कारणेन एतावन्तो गुणा आलोचनार्हस्य इण्यन्ते? तत्राह-जातिसम्पन्नः-जातिः-मातृपक्षरूपा तया संपन्नः-विशुद्धमातृपक्ष इत्यर्थः एतादृशः प्रायोऽकृत्यं न सेवते, अथ कथमपि दोष आपतेत् तदा आलोचनाकाले सम्यगालोच-: यति १ । कुलसम्पन्नः-कुलेन-पितृपक्षरूपेण संपन्नः, विशुद्धपितृपक्षो हि प्रतिपन्नप्रायश्चित्तस्य सम्यग् निर्वाहको भवति २ । विनयसम्पन्नः-गुरोरभ्युत्थाननिषद्यादानादिविनयं सम्यक् करोति ३। ज्ञानसम्पन्न:-श्रुतानुसारेण सम्यगालोचयति यत् 'अमुकश्रुतानुसारेण मे दत्तं प्रायश्चित्तमतः शुद्धोऽह'-मिति जानीते ४ । दर्शनसम्पन्नः-प्रायश्चित्तात् स्वस्य शुद्धिं सम्यक् श्रद्धत्ते ५ । चारित्र-. सम्पन्नः-पुनरतिचारं न सेवते, अनालोचिते चारित्रं न शुध्यतीति सम्यगालोचयति ६ । शान्तिसम्पन्नः-कस्मिंश्चित्कारणविशेषे गुरुणा कठोरमपि भाषितं सम्यक् प्रतिपद्यते न तु रोषं कुरुते, यदपि प्रायश्चित्तमारोपितं तत् सम्यग् वहतीति ७ । दान्तः-इन्द्रियदमनसम्पन्नः-नोइन्द्रियदमनसम्पन्नः प्राप्तप्रायश्चित्ततपो मनोवलसम्पन्नत्वेन सम्यगाराधयति ८ । अ मायित्वसम्पन्नः-माया अस्यास्तीति मायी, न मायी अमायी, तस्य भावोऽमायित्वम् , तेन संपन्नः, मायारहितोऽप्रतिकुञ्चितमालोचयति ९ । अपश्चात्तापित्वसम्पन्नः-पश्चात्तापः प्रायश्चित्तप्राप्तौ मनोमालिन्यम् , सोऽस्यास्तीति पश्चात्तापी, गुरुदत्तप्रायश्चित्तप्राप्तौ पश्चात्तापकारकः यथा-'हा दुष्ठु मया कृतं यद् आलोचितम् , इदानीं कथमहं प्रायश्चित्ततपः करिष्यामि, इत्यादिचिन्तकः, यो न तथा सः अपश्चात्तापी, स एवं मनुते-कृत पुण्योऽहं यत् कृतपापस्य प्रायश्चित्तं प्रतिपन्नवानिति १० । एतादृशदशगुणसम्पन्नेन आलोचकेन भाव्यमिति । एवमेवोक्तं भगवता स्थानाङ्गस्य दशमे स्थाने इति ।
आलोचनानर्हस्य दोषा अपि दश भवन्ति तानाहगाथा--"आवज्जणाणुमाणा-इदोसजुत्तो हविज्ज जो सीसो।
सो आलोयणनरिहो, नालोयइ सुद्धभावेणं" ॥१॥ छाया-आवर्जनानुमानादिदोषयुक्तो भवेत् यः शिष्यः ।
स आलोचनानर्हः नालोचयति शुद्धभावेन ॥१॥ आवर्जनानुमानादिदोषयुक्तः इति । आलोचनाऽनर्हस्य ‘आवर्जना१-ऽनुमान२–दृष्ट३बादर४-सूक्ष्म५ -छन्न६-शब्दाकुल ७-बहुजना८-ऽव्यक्त९-तत्सेवि १० भेदाद् दश दोषाः भवन्ति । तथाहि-'आवर्जितः वशीकृतः सन् आचार्यो मेऽल्पं प्रायश्चित्तं दास्यति' इति बुद्धया ।
व्य. ३