________________
प्रसङ्गः, तेन चारित्रं कलुषितं भवति, उत्तस्मुणातिचारा हि मूलगुणानपि विराधयन्ति, मूलोत्तरगुणानां परस्परं संबद्धत्वात् । यदि मूलगुणविषयं पापं सेवितं भवेत्तदा चारित्रमेव समूलं विनश्यति । विशेषस्त्वेतावानेव यत् मूलगुणनाशे तत्कालमेव साधोश्चारित्रपर्वतादवपातो भवेत् , उत्तरगुणनाशे तु कालक्रमेण चरित्रनाशः संजायते, उक्तञ्च
"अग्गधाओ हणे मुलं, मूलघाओ य अग्गयं ।
मूलोत्तरगुणे नेव, विराहिज्जा कयाइ वि" ॥१॥ छाया-अग्रघातो मूलं हन्यात्, मूलपातश्च अप्रकम् ।
(तस्मात् ) मूलोत्तरगुणान् नैव विराधयेत् कदाचिदपि ॥१॥ अत्र तालो दृष्टान्तः-तालवृक्षस्याऽये सूच्या घातो मूलं हन्ति । मूलघातस्तु सर्व वृक्षमेव हन्ति अग्रभागस्य का कथा इति । अत्र विषभक्षिकुपथ्यसेविनोई योदृष्टान्ते गायामाह
"एगो य विसं भक्खइ, बीओ सेवइ कुपत्थमाहारं । . .
सज्जो मरइ य पढमो, अवरो कालक्कमेणेव" ॥१॥ छाया-एकश्च विषं भक्षति, द्वितीयः सेवते कुपथ्यमाहारम् ।
सद्यो म्रियते प्रथमः, अपरः कालक्रमेणैव ॥ १॥ तथाहि--एकेन केनचित् पुरुषेण प्रच्छन्नं विषं भक्षितम् , वैद्येन पृष्टम्-किं त्वया भक्षितं सद्यः सत्यं वद येन तदुपशामकमौषधं दत्त्वा त्वां प्रगुणीकरोमीति । तेन 'न किमपि भक्षितम इत्युक्त्वा विषभक्षणं संगोपितं वैद्याय न प्रकाशितम् । ततः स तदोषेण तत्कालमेव जीविताद् ध्वस्तोऽभवत् । द्वितीयः पुनः प्रच्छन्नं कुपथ्यं सेवते तेन प्रतिदिनं तस्य शरीरे रोगो वर्धितुमारब्धः, वैयेन पृष्टम्-किं त्वं कुपथ्यं सेवसे येन तव शरीरे रोगः प्रतिदिनं वृद्धिमेति, सत्यं यथावस्थितं प्रकाशय येन त्वां प्रगुणीकरोमि । तेन मायां कृत्वा वैद्याय न किमपि प्रकाशितम् , क्रमेण तस्य स रोगः असाध्यतां प्राप्तः, ततः कालक्रमेण स मृतवानिति । एवं मूलोत्तरगुणदोषसेविनाऽपि गुरुसमीपे आलोचनाकाले गुरुणा पृष्टे सति मायाचरणं न कर्त्तव्यं, यथावस्थितं सर्व वदेदिति । शिष्यः पृच्छति भदन्त ! कीदृशो भिक्षुरालोचना) भवितुमर्हसि ? गुरुराह
"जाइकुलाईदसगुण, जुत्तो आलोयणारिहो सीसो ।
आलोयइ सो सम्म, भीरुत्तणो य पावस्स" ॥१॥ इति । छाया- जातिकुलादिदशगुणयुक्त आलोचनाहः शिष्यः।
आलोचयति सम्यक् भीक्त्वाच्च पापस्य ॥१॥