SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० १६ परिहारस्थान सेविनः प्रायश्चित्तविधिः १५ छाया -यो भिक्षुर्बहुशोऽपि चातुर्मासिकं वा, बहुशोऽपि सातिरेकचातुर्मासिकं वा बहुशोऽपि पञ्चमासिकं वा बहुशोऽपि सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानां (मध्याद्) अन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत्, अप्रतिकुञ्च्य आलोचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा, पाञ्चमासिकं, वा सातिरेकपाञ्चमासिकं वा अप्रतिकुञ्च्य आलोचयतः पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा, प्रतिकुञ्च्य आलोचयतः पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा, षाण्मासिकं वा, ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा ते चेव षण्मासाः ॥ सू० १६ ॥ भाष्यम् 'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'बहुसोवि' बहुशोऽनेकशोऽनेकवा रानित्यथः 'च उम्मासियं वा' चातुर्मासिकं मासचतुष्टयेन संपादन योग्यम् । 'बहुसोचि साइरेगचाउम्मायिं वा' बहुशोऽनेकवारान् सातिरेकचातुर्मासिकं चातुर्मासिकपरिहारस्थाने सातिरेकत्व रात्रिन्दिवपञ्चचादिभिर्भवति । रात्रिन्दिवपञ्चकादारभ्य भिन्नमासेनाऽधिकत्वमित्यर्थः । बहुसोवि पंचमासि वा' बहुशोऽपि अनेकवारमपि पाञ्च मासिकं वा मासपञ्चकेन संपादनयोग्यं परिहारस्थानम्, 'साइरेगपंचमासियं वा' सातिरेक पाञ्चमासिकं वा 'एएस परिहारट्ठाणाणं' एतेषां चातुर्मासकादिपरिहारस्थानानां मध्यात् 'अन्नयरं परिहारद्वाणं पडिसेवित्ता' अन्यतरत् यत्किमप्येकं परिहारस्थानं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आचार्यसमीपे दोषं प्रकाशयेत् । तत्र - 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा निष्कपट भावेन आलोचयतः 'वाउम्मासियं वा' चातुर्मासिकं वा 'साइरेगचाउमा सियं वा' सातिरेकचातुर्मासिकं वा प्रायश्चित्तम् | 'पंचमा सियं वा' पाञ्चमासिकं वा 'साइरेगपंचमासियं वा ' सातिरेकपाञ्चमासिकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दद्यादाचार्य: । 'पलिउंचिय आलोएमाणस्स' प्रति कुञ्च्य मायापूर्वकम् आलोचयतः चातुर्मासिकपरिहारस्थाने 'पंचमासियं वा ' पाञ्चमासिकं प्रायश्चित्तं दद्यात्, तत्र-मासचतुष्टयपापस्थानस्य प्रतिसेवनाजनितत्वात्, मासाधिक्यस्य च मायापराधजन्तित्वात् । सातिरेकचातुर्मासिकपरिहारस्थाने तु 'साइरेगपंचमासियं वा' सतिरेकपाञ्चमासिकं प्रायश्चित्तं दातव्यम् । सातिरेकपाञ्चमासिक परिहारस्थाने सकपटमलोचयतस्तु 'छम्मासियं वा' षाण्मासिकं प्रायश्चित्तं दातव्यम् । ' तेण परं तेन ततः पञ्चमासाधिकपरिहारस्थानप्रतिसेवनात् परं परस्मिन् परिहारस्थाने षट्सप्ताष्टादिमा सिके प्रति सेविते तु 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते सकपटे, अप्रतिकुञ्चिते निष्कपटे वा 'ते चैव छम्मासा' ते एव षण्मासाः प्रायश्चित्तरूपेण दातव्याः कारणं पूर्वमुक्तमेवेति । ननु यदे शिष्यः प्रतिकुञ्य आलोचनां कुर्यात् तदा गुरुणा कथं ज्ञायते यदयं मूलगुणविषयं पापं सेवितवान् उत्तरगुणविषयं वा ? एवं सति न तस्य सम्यक् पापशुद्धिर्जायते । यदि तेन उत्तरगुणविषयं पापं सेवितं भवेत् तदा तस्मिन्ननालोचिते परम्परया मूलगुणेषु दोष
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy